वाचस्पत्यम्
मधुशर्करा || स्त्री मधुजाता शर्करा शा० त० । (सिताखण्ड) मधुजातशर्करायां राजनि० ।
शब्दकल्पद्रुमः
मधुशर्करा || स्त्री (मधुजाता शर्करा ।)
मधुजात- शर्करा । सिताखण्ड इति भाषा ॥ यथा, —
“माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा । माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥ यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा । विशेषाद्वलवृष्या च तर्पणं क्षीणदेहिनाम् ॥” इति राजनिर्घण्टः ॥ (“मधुशर्करा पुनश्च्छर्द्ध्यतीसारहरी रूक्षाछेदनी प्रह्लादनी कषायमधुरा मधुरविपाका च ।” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)