वाचस्पत्यम्
मधुष्ठील || पु० मधु अष्ठीले गर्भेऽस्थ पृषो० । (मौल) गुडपुष्पवृक्षे अमरः ।
शब्दकल्पद्रुमः
मधुष्ठीलः || पुं, (मधु मकरन्दं ष्ठीवति निःक्षि- पतीति । ष्ठीव् + इगुपधत्वात् कः । पृषो- दरादित्वाद्वस्य लत्वम् ।)
मधूकवृक्षः । इत्य- मरः । २ । ४ । २८ ॥ (अस्य पर्य्यायो यथा, —
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुद्रुमः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)