वाचस्पत्यम्
मधुस्रवस् || पु० मधु स्रवति स्रु—असुन् । (मौल) वृक्षे जटाधरः ।
शब्दकल्पद्रुमः
मधुस्रवाः || [स्] पुं, (मधूनि स्रवति निःक्षिपतीति । स्रु + कर्त्तरि असुन् ।) मधूकवृक्षः । इति जटाधरः ॥