शब्दकल्पद्रुमः
मधुस्रवा || स्त्री (मधुनः स्रवो यस्याः ।)
मधुयष्टिका । इति जटाधरः ॥ जीवन्ती । इति शब्दचन्द्रिका ॥ (अस्याः पर्य्यायो यथा, —
“जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मूर्व्वा । हंसपदी । इति राजनिर्घण्टः ॥