संस्कृत-शब्दकोशः

मधुस्वर मधूक

मधुहन्

वाचस्पत्यम्

मधुहन् ||‍ पु० मधुं तन्नामासुरं कर्मफलं वा ज्ञानद्वारा हन्ति हन् क्विप् । विष्णौ ।


शब्दकल्पद्रुमः

मधुहा || [न्] पुं, (मधुं तन्नामानमसुरं हन्तीति । हन् + क्विप् ।)
विष्णुः । इति हेमचन्द्रः ॥ (मधु हन्तीति । हन् + क्विप् । मधुनाशके, त्रि । यथा, महाभारते । ३ । ३३ । ६८ । “सर्व्वथा संहतैरेव दुर्ब्बलैर्बलवानपि । अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥” प्रसहजातिप्राणिविशेषः ॥ यंथा, —
“शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः । धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)



Correction: