वाचस्पत्यम्
मधूक || न० मह—ऊक हस्य धः । १ यष्टिमधौ अमरः । (मौल) २ वृक्षे पु० राजनि० ।
शब्दकल्पद्रुमः
मधूकं || क्ली (महतीति । मह् + “ऊलूका- दयश्च ।” उणा० ४ । ४१ । इति ऊकः निपा- तितश्च ।)
यष्टिमधु । इति रार्जनिर्घण्टः ॥ (गुणादयोऽस्य यष्टिमधुशब्दे विज्ञेयाः ॥)
शब्दकल्पद्रुमः
मधूकः || पुं, (मह्यते मन्यते वेति । मह् + मन् वा + “उलूकादयश्च ।” उणा ० ४ । ४१ । इति ऊकप्रत्ययो निपातितश्च ।)
वृक्षविशेषः । महुल इति मौल इति महुया इति च भाषा ॥ तत्पर्य्यायः । गुडपुष्पः २ मधुद्रुमः ३ वान- प्रस्थः ४ मधुष्ठीलः ५ । इत्यमरः । २ । ४ । २८ ॥ मधुकः ६ मधुः ७ मधुपुष्पः ८ । इति शब्द- रत्नावली ॥ मधुस्रवः ९ । इति जटाधरः ॥ मधुवृक्षः १० रोधपुष्पः ११ माधवः १२ । (यथा, महाभारते । १५ । २५ । ११ । “चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णाग्र्यमधूकपुष्पैः ॥”)
अस्य गुणाः । मधुरत्वम् । शीतत्वम् । पित्त- दाहश्रमापहत्वम् । वातलत्वम् । जन्तुदोषघ्न- त्वम् । वीर्य्यपुष्टिविवर्द्धनत्वञ्च । अस्य पुष्पगुणाः । मधुरत्वम् । हृद्यत्वम् । हिमत्वम् । पित्त- विदाहकारित्वञ्च । अस्य फलगुणाः । वाता- मयपित्तनाशित्वम् । ज्ञेयं मधूकद्वयमेवमेतत् । इति राजनिर्घण्टः ॥ अपि च । “मधूकपुष्पं मधुरं शीतलं गुरु बृंहणम् । बलशुक्रकरं प्रोक्तं वातपित्तविनाशनम् ॥ फलं शीतं गुरु स्वादु शुक्रलं वातपित्तनुत् । अहृद्यं हन्ति तृष्णास्रदाहश्वासक्षत- क्षयान् ॥” इति भावप्रकाशः ॥ अपरञ्च । “मधूकपुष्पञ्चाहृद्यं तर्पणं बृंहणं परम् । मधूकस्य फलं पक्वं वातपित्तप्रणाशनम् ॥” तन्मज्जगुणास्तत्फलगुणवत् । यथा, —
“यस्य यस्य फलस्यैव वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” तस्य त्वग्गुणाः । “मधूकं रक्तपित्तघ्नं व्रणशोधनरोपणम् ॥” इति राजवल्लभः ॥