संस्कृत-शब्दकोशः

मधूल मधूलग्न

मधूलक

शब्दकल्पद्रुमः

मधूलकः || पुं, (मधूल + स्वार्थे कन् ।)
जलज- मधूकवृक्षः । तत्पर्य्यायः । दीर्घपत्रकः २ । इति जटाधरः ॥ गौरशाकः ३ मधूलः ४ स्वल्प- पत्रकः ५ । इति रत्नमाला ॥ “स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः ॥” इति शब्दरत्नावली ॥ (पर्य्यायान्तरमस्य यथा, —
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अस्य गुणाः । मधूकगुणतुल्याः । मधुररसः । इति हेमचन्द्रः । ६ । २४ ॥ (क्लीवलिङ्गेऽपि दृश्यते । यथा, अथर्व्ववेदे । १ । ३४ । २ । “जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ॥”)
तद्वति, त्रि ॥



Correction: