वाचस्पत्यम्
मधूलिका is an alternate of मधुलिका. मधु(धू)लिका || स्त्री मधु माधुर्य्यं साति सा—क पृषो० वा दीर्घः संज्ञायां कन् अत इत्त्वम् राजिकायां (राइसर्षा) राजनि० ।
शब्दकल्पद्रुमः
मधूलिका || स्त्री (मधूल + कन् । स्त्रियां टाप् अत इत्वञ्च ।)
मूर्व्वा । इत्यमरः । २ । ४ । ८४ ॥ (अस्याः पर्य्यायो यथा, —
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा । मधलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥” यष्टीमधु । तत्पर्य्यायो यथा, —
“यष्टीमधु तथा यष्टी मधुकं क्लीतकन्तथा । अन्यत्क्लीतनकन्तत्तु भवेत्तोये मधूलिका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)