संस्कृत-शब्दकोशः

मधूली मध्यगन्ध

मध्य

वाचस्पत्यम्

मध्य ||‍ पुंन० मन—यत् नस्य धः । १ देहस्यावयवभेदे । (माजा) “मध्येन सा वेदिविलग्नमध्या” कुमारः । नृत्यादौ- मन्दत्वशीघ्रत्वभिन्ने २ व्यापारभेदे न० अमरः । ३ पूर्वापरसी- मयोरन्तराले ४ परार्द्ध्यसंख्यातोऽर्वाचीनायां ५ सङ्ख्यायां न० ६ तत्संख्याते च । “अन्त्यं मध्यं परार्द्ध्यम्” लीला० । ज्योतिषोक्ते ग्रहाणां ७ गतिभेदे स्त्री तद्वति ८ ग्रहे पु० । ९ न्याय्ये १० अन्तर्वर्त्तिनि च त्रि० शब्दर० । ११ त्र्यक्षरपादके छन्दोमात्रे वृ० र० ।


शब्दकल्पद्रुमः

मध्यं || क्ली (मन्यते इति । मन् + “अघ्न्यादयश्च ।” उणा ० ४ । १११ । इति यक्प्रत्ययेन निपातितः ।)
दशान्त्यसंख्या । शतसागरसंख्या । इति हेम- चन्द्रः ॥ (यथा, महाभारते । २ । ६१ । ४ । “मध्यञ्चैव परार्द्धञ्च सपरञ्चात्र पण्यताम् ॥”)
अवसानम् । तत्पर्य्यायः । विरामः २ । इति त्रिकाण्डशेषः ॥ मन्दत्वशीघ्रत्वोभयेतरत्वयुक्त- नृत्यविषयकगमनविशेषः । इति भरतः ॥ लय- विशेषः । इति मधुः ॥ मध्यमावृत्तिः । इति साञ्जः ॥ यथा, अमरे । २ । ६ । ७९ । “विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥”


शब्दकल्पद्रुमः

मध्यः || त्रि (मन्यते इति । मन् + यक् । नस्य च धः ।)
न्याय्यः । अन्तरः । अधमः । इति शब्दरत्नावली ॥ मध्यमः । यथा, —
“उत्तमाधममध्यानि बुद्धा कार्य्याणि पार्थिवः । उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥” इति मात्स्ये ८९ अध्यायः ॥


शब्दकल्पद्रुमः

मध्यः || पुं, (मन् + यक् । नस्य धः ।)
ग्रहस्फुट- साधकाङ्कविशेषः । स च अहर्गणजातदेशा- न्तरादिसंस्काररहिताङ्करूपग्रहः । इति ज्योतिषम् ॥


शब्दकल्पद्रुमः

मध्यः || पुं, क्ली, (मन् + यक् । नस्य च ध ।)
देह- मध्यभागः । माजा इति भाषा ॥ तत्पर्य्यायः । मध्यमम् २ अवलग्नम् ३ । इत्यमरः । २ । ६ । ७९ ॥ विलग्नम् ४ । इति मेदिनी । भे, ४४ ॥ (यथा, भट्टिकाव्ये । ४ । १६ । “दधाना बलिभं मध्यं कर्णजाहविलोचना ॥” मध्यभागमात्रम् । यथा, मनुः । ४ । ३७ । “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥” “आयुष्कालस्य मध्यमावस्थाविशेषः कालः । षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानिरिति । तत्राविंशते- र्वृद्धिरात्रिंशतो यौवनमाचत्वारिंशतः सर्व्व- धात्विन्द्रियबलवीर्य्यसम्पूर्णता । अत ऊर्द्धमीषत् परिहानिर्यावत् सप्ततिरिति ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)



Correction: