शब्दकल्पद्रुमः
मध्यन्दिनः || पुं, (दिनस्य मध्यं राजदन्तादित्वात् मध्यशब्दस्य पूर्ब्बनिपातः । पृषोदरादित्वात् नकारागमः । मध्यन्दिनं पुष्पविकासकत्वेना- स्यास्तीति । अच् ।)
बन्धूकवृक्षः । इति राज- निर्घण्टः ॥ (मध्याह्ने, क्ली, यथा, मनुः । ४ । १३१ । “मध्यन्दिनेऽर्द्धरात्रे ञ्च श्राद्धं भुक्त्वा च सामि- षम् ॥”)