वाचस्पत्यम्
मध्यपञ्चमूलक || न० । “बलापुनर्नवैरण्डसूर्पपर्णीद्वयेन तु । एकत्र योजितेनैव स्यान्मध्यं पञ्चमूलकम्” राजनि० उक्ते पदार्थपञ्चके ।
शब्दकल्पद्रुमः
मध्यपञ्चमूलकं || क्ली (मध्यं मध्यमं पञ्चमूलकम् ।)
पञ्चमूलपाचनविशेषः । यथा, —
“बला पुनर्नवैरण्डसूर्पपर्णीद्वयेन तु । एकत्र योजितेनैव स्यान्मध्यं पञ्चमूलकम् ॥” इति राजनिर्घण्टः ॥