संस्कृत-शब्दकोशः

मध्यमपाण्डव मध्यमलोक

मध्यमभृतक

वाचस्पत्यम्

मध्यमभृतक ||‍ पु० कर्म० । ‘मध्यमस्तु कृषीबल’ इत्युक्ते मध्यमे दासे कृषीवलादौ ।


शब्दकल्पद्रुमः

मध्यमभृतकः || पुं, (मध्यमश्चासौ भृतकश्चेति ।)
कृषीबलभृतकः । कृषाण इति भाषा ॥ यथा, —
“उत्तमश्चायुधीयोऽत्र मध्यमस्तु कृषीबलः । अधमो भारवाही स्यादित्येष त्रिविधो भृतः ॥” इति मिताक्षरा ॥



Correction: