संस्कृत-शब्दकोशः

मध्यमसङ्ग्रह मध्यमा

मध्यमसाहस

वाचस्पत्यम्

मध्यमसाहस ||‍ न० कर्म० । “वासःपश्वन्नपानानां मृहोपकर- खस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्” इत्युक्ते परकीयवस्त्रादेर्भङ्गाक्षेपादिरूपे साहसभेदे “वणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः” मनूक्ते पञ्चपणात्मके २ दण्डभेदे पु० ।


शब्दकल्पद्रुमः

मध्यमसाहसं || क्ली (सहसा क्रियमाणं कृतं वा । सहसा + अण् । मध्यमञ्च तत् साहसञ्चेति ।)
बलदर्पितेन बासःपश्वन्नपानादीनाम्भङ्गाक्षेपो पमर्दादिरूपं सहसा क्रियमाणं कर्म्म । यथा, “फलमूलोदकादीनां क्षेत्रोपकरणस्य च । भङ्गाक्षेपोपमर्द्दाद्यैः प्रथमं साहसं स्मृतम् ॥ वासःपश्वन्नपानानां गृहोपकरणस्य च । एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥” इति मिताक्षरा ॥


शब्दकल्पद्रुमः

मध्यमसाहसः || पुं, (मध्यमश्चासौ साहसश्चेति ।)
दण्डविशेषः । स तु पञ्चशतपणरूपः । यथा, —
“पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमं पञ्च विज्ञेयः सहस्रन्त्वेव चोत्तमः ॥ लोभात् सहस्रं दण्डन्तु मोहात् पूर्ब्बन्तु साहसम् । भयाद्वा मध्यमौ दण्डौ मैत्रात् पूर्ब्बं चतुर्गुणम् ॥” इति मानवे साक्षिप्रकरणे ८ अध्यायः ॥



Correction: