संस्कृत-शब्दकोशः

मध्यमसाहस मध्यमाहरण

मध्यमा

वाचस्पत्यम्

मध्यमा ||‍ स्त्री मध्य + म । १ दृष्टरजस्कायां नार्य्याम् २ तर्जन्य- नामयोरन्तःस्थायामङ्गुलौ, ३ पद्मादीनां कर्णिकायाम् मेदि० परादिषु मध्ये ४ हृदयोत्पन्नशब्दभेदे पश्यन्ती- शब्दे ४२८१ पृ० दृश्यम् ५ नायिकाभेदे च ।


शब्दकल्पद्रुमः

मध्यमा || स्त्री (मध्यम + टाप् ।)
दृष्टरजस्का नारी । कर्णिका । अङ्गुलिमेदः । त्र्यक्षर- च्छन्दः । इति मेदिनी । मे, ५० ॥ हृदयोत्थित- बुद्धियुतनादरूपवर्णः । यथा, अलङ्कारकौस्तुभः ॥ “पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्य- माख्यः ।” स्वीयाद्यन्तर्गतनायिकाभेदः । तस्या लक्षणम् । हिताहितकारिण्यपि प्रियतमे हिताहित- कारिणी या सा । अस्यास्तु व्यवहारानुसारिणी चेष्टा । इति रसमञ्जरी ॥ (जम्बुभेदः । तत्पर्य्यायो यथा, —
“सूक्ष्मकृष्णफलाजम्बुर्दीर्घपत्रा च मध्यमा ॥” इति वैद्यकरत्नमालायाम् ॥)



Correction: