संस्कृत-शब्दकोशः

मध्यमीय मध्ययव

मध्यमेश्वर

वाचस्पत्यम्

मध्यमेश्वर ||‍ पु० काशीस्थे शिवलिङ्गभेदे ।


शब्दकल्पद्रुमः

मध्यमेश्वरः || पुं, (मध्यमस्य स्थानस्य ईश्वरः ।)
काशीस्थशिवलिङ्गविशेषः । यथा, —
“धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्च्चयन्ति महादेवं मध्यमेश्वरमीश्वरम् ॥ स्नानं दानं तपः श्राद्धं पिण्डनिर्व्वापणं त्विह । एकैकशः कृतं विप्राः पुनन्त्यासप्तमं कुलम् ॥ सन्निहित्वा अपस्पृश्य राहुग्रस्ते निशाकरे । यत् फलं लभते मर्त्यस्तस्माद्दशगुणं त्विह ॥ एवमुक्त्वा महायोगी मध्यमे शान्तिके प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥” इति कौर्म्मे ३१ अध्यायः ॥



Correction: