वाचस्पत्यम्
मध्वासव || पु० मधुना पुष्परसेन कृत आसवः शा० त० । (मौल) मधुद्रुमजाते मद्ये अमरः ।
शब्दकल्पद्रुमः
मध्वासवः || पुं, (मधु मधूकपुष्परसस्तन कृत आसवः ।)
मधूकपुष्पकृतमद्यम् । तत्पर्य्यायः । माधवकः २ मधु ३ माध्वीकम् ४ । इत्यमरः । २ । १० । ४१ ॥ (यथा, सुश्रुते १ । ४५ अध्याये । “मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः । मधु मध्वासवश्छेदी मेहकुष्ठविषापहः ॥” विवरणमस्य माध्वीकशब्दे ज्ञातव्यम् ॥)