संस्कृत-शब्दकोशः

मनःशिला मनसादेवी

मनसा

वाचस्पत्यम्

मनसा ||‍ स्त्री मनं मननं स्यति सो—क । आस्तीकस्य मुने- र्मातरि वासुकिभगिन्याम् जरत्कारुपत्न्यां नाम्ना जरत्कारौ जटा० ।


शब्दकल्पद्रुमः

मनसा || स्त्री (मनः भक्ताभीष्टपूरणाय मननं अस्त्यस्या इति । मनस् + अर्श आदित्वादच् । ततष्टाप् । यद्वा, मनं मननमहङ्कारमिति यावत् स्यति नाशयतीति । सो + कः ।)
देवी- विशेषः । तत्पर्य्यायः । कद्रुः २ मनसादेवी ३ विषहरी ४ । इति जटाधरः ॥ अस्याः प्रणाम- मन्त्रः । “आस्तीकस्य मुनेर्माता भगिनी वासुकेस्तथा । जरत्कारुमुनेः पत्नी मनसादेवि ! नमोऽस्तु ते ॥” इति तस्याः पूजापद्धतिः ॥ तस्या नाम्नां व्युत्पत्तिर्यथा, — श्रीनारायण उवाच । “श्रूयतां मनसाख्यानं यत् श्रुतं धर्म्मवक्त्रतः । कन्या सा च भगवती कश्यपस्य च मानसी ॥ तेनेयं मनसादेवी मनसा या च दीव्यति । मनसा ध्यायते या वा परमात्मानमीश्वरी ॥ तेन सा मनसादेवी योगेन तेन दीव्यति । आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ॥ त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः । जरत्कारुशरीरञ्च दृष्ट्वा यत् क्षीणमीश्वरः ॥ गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः । वाञ्छितञ्च ददौ तस्यै कृपया च कृपानिधिः ॥ पूजाञ्च कारयामास चकार च पुनः पुनः । स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ॥ भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । जगद्गौरीति विख्याता तेन सा पूजिता सती ॥ शिवशिष्या च सा देवी तेन शैवीति कीर्त्तिता । विष्णुभक्तातीव शश्वद्वैष्णवी तेन नारद ! ॥ नागानां प्राणरक्षित्री यज्ञे जन्मेजयस्य च । नागेश्वरीति विख्याता सा नागभगिनीति च ॥ विषं संहर्त्तुमीशा सा तेन विषहरीति सा । सिद्धं योगं हरात् प्राप तेनातिसिद्धयोगिनी । महाज्ञानञ्च गोप्यञ्च मृतसञ्जीवनीं पराम् । महाज्ञानयुतां ताञ्च प्रवदन्ति मनीषिणः ॥ आस्तीकस्य मुनीन्द्रस्य माता सा च तप- स्विनः ॥ आस्तीकमाता विख्याता जगत्सु सुप्रतिष्ठीता ॥ प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः । योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ॥ जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी । वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ जरत्कारुप्रियास्तीकमाता विषहरीति च । महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ द्वादशैतानि नामानि पूजाकाले च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ नागभीते च शयने नागग्रस्ते च मन्दिरे । नागक्षते महादुर्गे नागवेष्टितविग्रहे । इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः । नित्यं पठेद् यस्तं दृष्ट्वा नागवर्गः पलायते ॥ दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् । स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ॥ नागौघभूषणं कृत्वा स भवेन्नागवाहनः । नागासनो नागतल्पो महासिद्धोभवेन्नरः ॥” इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा- यणनारदीये मनसोपाख्याने मनसास्तोत्रं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ * ॥
तस्याः पूजा- मन्त्रादि यथा, — श्रीनारायण उवाच । “पूजाविधानं स्तोत्रञ्च श्रूयतां मुनिपुङ्गव ! । ध्यानञ्च सामवेदोक्तं देवीपूजाविधानकम् ॥ श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् । वह्रिशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ महाज्ञानयुताञ्चैव प्रवरां ज्ञानिनां सतीम् । सिद्धाधिष्ठातृदेवीञ्च सिद्धां सिद्धिप्रदां भजे ॥ इति ध्यात्वा तु तां देवीं मूलेनैव प्रपूजयेत् । नैवेद्यैर्विविधैर्दीपैः पुष्पधूपानुलेपनैः ॥ मूलमन्त्रश्च वेदोक्तो भक्तानां वाञ्छितप्रदः । मुने ! कल्पतरुर्नाम सुसिद्धो द्बादशाक्षरः ॥ ॐ ह्रीं श्रीं क्रीं ऐं मनसादेव्यै स्वाहेति कीर्त्तितः । पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले । सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ब्रह्मन्नाषाढसंक्रान्त्यां स्नुहीशाखासु यत्नतः । आवाह्य देवीमीशान्तां पूजयेद् यो हि भक्तितः ॥ पञ्चम्यां मनसाख्यायां देव्यै दद्याच्च यो बलिम् । धनवान् पुत्त्रवांश्चैव कीर्त्तिमांश्च भवेद्ध्रुवम् ॥ पूजाविधानं कथितं तदाख्यानं निशामय । कथयामि महाभाग ! यत् श्रुतं धर्म्मवक्ततः ॥” तस्या जन्मकारणं यथा, —
“पुरा नागभयाक्रान्ता बभुयुर्मानवा भुवि । यान् यान् खादन्ति नागाश्च ते न जीवन्ति नारद ! ॥ मन्त्रांश्च ससृजे भीतः कश्यपः ब्रह्मणार्थितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ मन्त्राधिष्ठातृदेवीन्तां मनसां ससृजे ततः । तपसा मनसा तेन बभूव मनसा च सा ॥” तस्यास्तपस्यादि यथा, —
“कुमारी सा च सम्भूय जगाम शङ्करालयम् । भक्त्या संपूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ दिव्यं वर्षसहस्रञ्च तं सिषेवे मुनेः सुता । आशुतोषो महेशश्च ताञ्च तुष्टो बभूव ह ॥ महाज्ञानं ददौ तस्यै पाठयामास साम च । कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ! ॥ लक्ष्मीमाया कामबीजं ङेऽन्तं कृष्णपदन्तथा । त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ सर्व्वपूज्यञ्च स्तवनं ध्यानं भुवनपावनम् । पुरश्चर्य्याक्रमञ्चापि वेदोक्तं सर्व्वसम्मतम् ॥ प्राप्ता मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती । जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया ॥ त्रियुगञ्च तपस्तप्त्वा कृष्णस्य परमात्मनः । सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् ॥ दृष्ट्वा कृशाङ्गीं बालाञ्च कृपया च कृपानिधिः । पूजाञ्च कारयामास चकार च स्वयं हरिः ॥ वरञ्च प्रददौ तस्यै पूजिता त्वं भवे भव । वरं दत्त्वा च कल्याण्यै सद्यश्चान्तर्दधे विभुः ॥ प्रथमे पूजिता सा च कृष्णेन परमात्मना । द्वितीये शङ्करेणैव कश्यपेन सुरेण च ॥ मनुना मुनिना चैव नागेन मानवादिना । बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता ॥” तस्या विवाहः स्वामिकर्त्तृकत्यागश्च यथा, —
“जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा । अयाचितो मुनिश्रेष्ठो जग्राह ब्रह्मणाज्ञया ॥ कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् । सुष्वाप देव्या जघने वटमूले च पुष्करे ॥ निद्रां जगाम च मुनिः स्मृत्वा निद्रेशमीश्वरम् । जगामास्तं दिनकरः सायंकाल उपस्थितः ॥ सचिन्त्य मनसा तत्र मनसा सा प्रतिष्ठिता । धर्म्मलोपभयेनैव चकारालोचनं सती ॥ अकृत्वा पश्चिमां सन्ध्यां नित्याञ्चैव द्बिजन्मनाम् । ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम ॥ नोपतिष्ठति यः पूर्ब्बां नोपास्ते यस्तु पश्चिमाम् । स च एवाशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् ॥ वेदोक्तमपि संचिन्त्य बोधयामास तं मुनिम् । स च बुद्धा मुनिश्रेष्ठश्चुकोप तां दृशा मुनिः ॥ जरत्कारुरुवाच । कथं मे सुव्रते ! साध्वि ! निद्राभङ्गः कृतस्त्वया । व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी ॥ तपश्चानशनञ्चैव व्रतं दानादिकञ्च यत् । भर्त्तुरप्रियकारिण्याः सर्व्वं भवति निष्फलम् ॥ यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया । पतिव्रताव्रतार्थञ्च पतिरूपी हरिः स्वयम् ॥ सर्व्वदानं सर्व्वयज्ञः सर्व्वतीर्थनिषेवणम् । सर्व्वं व्रतं तपः सर्व्वमुपवासादिकञ्च यत् ॥ सर्व्वधर्म्मश्च सत्यञ्च सर्व्वदेवप्रपूजनम् । तत्सर्व्वं स्वामिसेवायाः कलां नार्हन्ति षोड- शीम् ॥ सुपुण्ये भारते वर्षे पतिसेवां करोति या । वैकुण्ठं स्वामिना सार्द्धं सा याति ब्रह्मणः शतम् ॥ विप्रियं कुरुते भर्त्तुर्विप्रियं वदति प्रियम् । असत्कुलप्रजाता या तत्फलं श्रूयतां सति ! ॥ कुम्भीपाकं व्रजेत् सा च यावच्चन्द्रदिवाकरौ । ततो भवति चाण्डाली पतिपुत्त्रविवर्जिता ॥ इत्युक्त्वा च सुनिश्रेष्ठो बभूव स्फुरिताधरः । चकम्पे मनसा साध्वी भयेनोवाच तं पतिम् ॥ मनसोवाच । सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव । कुरु शास्तिं महाभाग ! दुष्टाया मम सुव्रत ! ॥ शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च । स व्रजेत् कालसूत्रञ्च स्वामिनश्च विशेषतः ॥ इत्युक्त्वा मनसादेवी स्वामिनश्चरणाम्बुजे । पपात भक्त्या भीता च रुरोद च पुनः पुनः ॥ कुपितञ्च मुनिं दृष्ट्वा श्रीसूर्य्यः शप्तुमुद्यतम् । तत्राजगाम भगवान् सन्ध्यया सह नारद ! ॥ तत्रागत्य मुनिश्रेष्ठमुवाच भास्करः स्वयम् । विनयेन च भीतश्च तया सह यथोचितम् ॥ श्रीसूर्य्य उवाच । सूर्य्यास्तसमयं दृष्ट्वा धर्म्मलोपभयेन च । बोधयामास त्वां विप्र ! नाहमस्तं गतस्तदा ॥ क्षमस्व भगवन् ! ब्रह्मन्मां शप्तुं नोचितं मुने ! ॥ ब्राह्मणानाञ्च हृदयं नवनीतसमं तथा । तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ पुनः स्रष्टुं द्बिजः शक्तो न तेजस्वी द्विजात् परः । ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन् ब्रह्मतेजसा ॥ श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् । सूर्य्यस्य वचनं श्रुत्वा द्विजः शान्तो बभूव ह ॥ सूर्य्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् । तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ रुदन्ती शोकयुक्ता च हृदयेन विदूयता । सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम् ॥ कश्यपं जन्मदातारं विपत्तौ भयकर्षिता । तत्राजगाम भगवान् गोपीशः शम्भुरेव च । विधिश्च कश्यपश्चैव मनसा परिचिन्तितः ॥ दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् । तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः ॥ नमश्चकार शम्भुञ्च ब्रह्माणं कश्यपन्तदा । कथमागमनं देवा इति प्रश्नं चकार सः ॥ ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् । समुवाच नमस्कृत्य हृषीकेशपदाम्बुजम् ॥ ब्रह्मोवाच । यदि त्यक्ता धर्म्मपत्नी धर्म्मिष्ठा मनसा सती । कुरुष्वास्यां सुतोत्पत्तिं स्वधर्म्मपालनाय वै ॥ यती वा ब्रह्मचारी वा भिक्षुर्व्वनचरोऽपि वा । जायायाञ्च सुतोत्पत्तिं कृत्वा पश्चात् त्यजेन्मुने ! ॥ अकृत्वा तु सुतोत्पत्तिं वैरागी यस्त्यजेत् प्रियाम् । स्रवेत्तपस्तत्पुण्यञ्च चालन्याञ्च यथा जलम् ॥” तस्याः पुत्त्रोत्पत्तिर्यथा, —
“ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः । चकार तन्नाभिस्पर्शं योगेन मन्त्रपूर्ब्बकम् ॥ तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदान्विताः । मुदान्विता च मनसा जरत्कारुर्मुदान्वितः ॥ मुनेः करस्पर्शमात्रात् सद्यो गर्भो बभूव ह । मनसाया मुनिश्रेष्ठ ! मुनिश्रेष्ठ उवाच ताम् ॥” जरत्कारुरुवाच । गर्भेणानेन मनसे ! तव पुत्त्रो भविष्यति । जितेन्द्रियाणां प्रवरो धार्म्मिको वैष्णवाग्रणीः ॥ तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः । वरो वेदविदाञ्चैव ज्ञानिनां योगिनान्तथा ॥ स च पुत्त्रो विष्णुभक्तो धार्म्मिकः कुलमुद्धरेत् । नृत्यन्ति पितरः सर्व्वे यज्जन्ममात्रतो मुदा ॥ पतिव्रता सुशीला या सा प्रिया प्रियवादिनी । धर्म्मिष्ठपुत्त्रमाता च कुलजा कुलपालिका ॥ हरिभक्तिप्रदो बन्धुस्तमिष्टं तत्सुखप्रदम् । यो बन्धच्छित् स च पिता हरेर्वर्त्म प्रदर्शकः ॥ सा गर्भधारिणी या च गर्भवासविमोचनी । विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम् । आब्रह्मस्तम्बपर्य्यन्तं यतो विश्वं चराचरम् ॥ आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः । वेदजं योगजं यद्यत्तत्सारं हरिसेवनम् ॥ तत्त्वानां सारभूतञ्च हरिरन्यद्विडम्बनम् । दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः । ज्ञानात् प्रमुच्यते बन्धात् स रिपुर्यो हि बन्धदः ॥ विष्णुभक्तियुतं ज्ञानं न ददाति हि यो गुरुः । स रिपुः शिष्यघाती च यो हि बन्धान्न मोचयेत् ॥ जननीगर्भजात् क्लेशाद् यमताडनजात्तथा । न मोचयेद् यः स कथं गुरुस्तातो हि बान्धवः ॥ परमानन्दरूपञ्च कृष्णमार्गमनश्वरम् । न दर्शयेद् यः स कथं कीदृशो बान्धवो नृणाम् ॥ भज साध्वि ! परं ब्रह्माच्युतं कृष्णञ्च निर्गुणम् । निर्मूलञ्च पुरा कर्म्म भवेद् यत्सेवया ध्रुवम् ॥ मया च्छलेन त्वं त्यक्ता क्षम देवि ! मम प्रिये ! । क्षमायुतानां साध्वीनां सत्त्वात् क्रोधो न विद्यते ॥ पुष्करं तपसे यामि गच्छ देवि ! यथासुखम् । श्रीकृष्णचरणाम्भोजध्यानविच्छेदकातरः ॥ धनादिषु स्त्रियां प्रीतिः प्रवृत्तिवर्त्म गच्छताम् । श्रीकृष्णचरणाम्भोजे निष्पृहाणां मनोरथाः ॥ जरत्कारुवचः श्रुत्वा मनसा शोककातरा । सा साश्रुनेत्रा विनयादुवाच प्राणवल्लभम् ॥ मनसोवाच । दोषेणाहं त्वया त्यक्ता निद्राभङ्गेण ते प्रभो ! । यत्र स्मरामि त्वां बन्धो ! तत्र मामागमिष्यसि ॥ बन्धुभेदः क्लेशतमः पुत्त्रभेदस्ततः परः । प्राणेशभेदः प्राणानां विच्छेदात् सर्व्वतः परः ॥ पतिः पतिव्रतानान्तु शतपुत्त्राधिकः स्मृतः । सर्व्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः ॥ पुत्त्रे यथैकपुत्त्राणां वैष्णवानां यथा हरौ । नेत्रे यथैकनेत्राणां तृषितानां यथा जले ॥ क्षुधितानां यथान्ने च कामुकानां यथा स्त्रियाम् । यथा परस्वे चौराणां यथा जारे कुयोषिताम् ॥ विदुषाञ्च यथा शास्त्रे बाणिज्ये बणिजां यथा । तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो ! ॥ इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे । क्षणं चकार क्रोडे तां कृपया स कृपानिधिः ॥ नेत्रोदकेन मनसां स्नापयामास तां मुनिः । साश्रुणा च मुनेः क्रोडं सिषेच भेदकातरा ॥ तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः । स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः ॥ जगाम तपसे विप्रः स्वकान्तां सुप्रबोध्य च । जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः ॥ पार्व्वती बोधयामास मनसां शोककर्षिताम् । शिवश्चातीव ज्ञानेन शिवेन च शिवालये ॥ सुप्रशस्तदिने साध्वी सुषुवे मङ्गलक्षणे । नारायणांशं पुत्त्रञ्च ज्ञानिनां योगिनां गुरुम् ॥ गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः । स बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः ॥ जातकं कारयामास वाचयामास मङ्गलम् । वेदांश्च पाठयामास शिवाय च शिवः शिशोः ॥ रत्नत्रिकोटिलक्षञ्च ब्राह्मणेभ्यो ददौ शिवः । पार्व्वती च गवां लक्षं रत्नानि विविधानि च ॥ शम्भुश्च चतुरो वेदान् वेदाङ्गानीतराणि च । बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् ॥ भक्तिरस्ति स्वकान्ते चाभीष्टदेवे गुरौ हरौ । यस्याश्च तेन त्वत्पुत्त्रो बभूवास्तीक एव च ॥ जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया । संप्राप्य च महामन्त्रं तपश्च परमात्मनः ॥ दिव्यं वर्षत्रिलक्षञ्च तपस्तप्त्वा तपोधनः । आजगाम महायोगी नमस्कर्त्तुं शिवं प्रभुम् ॥ शङ्करञ्च नमस्कृत्य कृत्वा च बालकं पुरः । सा चाजगाम मनसा कश्यपस्याश्रमं पितुः ॥ तां सपुत्त्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः । शतलक्षञ्च रत्नानां ब्राह्मणेभ्यो ददौ मुने ! ॥ ब्राह्मणान् भोजयामास सोऽसंख्यान् श्रेयसे शिशोः । अदितिश्च दितिश्चान्या मुदं प्रापुः परन्तथा ॥ सा सपुत्त्रा च सुचिरं तस्थौ तातालये तदा । तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय ॥” तस्या माहात्म्यं यथा, —
“अथाभिमन्युतनये ब्रह्मशापः परीक्षिते । बभूव सहसा ब्रह्मन् ! दैवदोषेण कर्म्मणा ॥ सप्ताहे समतीते तु तक्षकस्त्वाञ्च भोक्ष्यति । शशाप शृङ्गी नृपतिं कौशिक्याश्च जलेन च ॥ राजा श्रुत्वा तत्प्रवृत्तिं गङ्गाद्वारं जगाम सः । तत्र तस्थौ च सप्ताहं शुश्राव धर्म्मसंहिताम् ॥ सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि । धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुको नृपम् ॥ तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् । धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ ॥ स ययौ तं गृहीत्वा च तुष्टः प्रहृष्टमानसः । तक्षको भक्षयामास नृपञ्च मञ्चकस्थितम् ॥ राजा जगाम वैकुण्ठं स्मारं स्मारं हरिं गुरुम् । सत्कारं कारयामास पितुर्जन्मेजयः शुचा ॥ राजा चकार यज्ञञ्च सर्पसत्रं ततो मुने ! । प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा ॥ स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ । सेन्द्रञ्च तक्षकं हन्तुं विप्रवर्गः समुद्यतः ॥ अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् । तान्तुष्टाव महेन्द्रश्च भयकातरविह्वलः ॥ तत आस्तीक आगत्य यज्ञञ्च मातुराज्ञया । महेन्द्रतक्षकप्राणान् ययाचे भूमिपं वरम् ॥ ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया । यज्ञं समाप्य विप्रेभ्यो दक्षिणाञ्च ददौ मुदा ॥ विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् । मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् ॥ शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः । मनसां पूजयामास तुष्टाव परमादरम् ॥ दत्त्वा षोडशोपचारं बलिञ्च तत्प्रियं तदा । प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया ॥ संपूज्य मनसादेवीं प्रययुः स्वालयञ्च ते । इत्येवं कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥” इन्द्रकृतमनसापूजास्तोत्रे यथा, — नारद उवाच । “केन तुष्टाव स्तोत्रेण महेन्द्रो मनसां सतीम् । पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ॥ श्रीनारायण उवाच । सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी । रत्नसिंहासने देवीं वासयामास भक्तितः ॥ स्वर्गगङ्गाजलेनैव बहुकुम्भस्थितेन च । स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ॥ वाससी वासयामास वह्रिशुद्धे मनोहरे । सर्व्वाङ्गे चन्दनं दत्त्वा पाद्यार्ध्यं भक्तिसंयुतः ॥ गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । संपूज्यादौ देवषट्कं पूजयामास तां सतीम् ॥ ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवञ्च मन्त्रतः । दशाक्षरेण मूलेन ददौ सर्व्वं यथोचितम् ॥ दत्त्वा षोडशोपचारं दुर्लभं दुर्लभां हरिः । भक्त्या च पूजयामास ब्रह्मणा प्रेरितो मुदा ॥ वाद्यं नानाप्रकारञ्च वादयामास तत्र वै । बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ॥ देवविप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया । तुष्टाव साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ महेन्द्र उवाच । देवि ! त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् । परात्पराञ्च परमां नहि स्तोतुं क्षमोऽधुना ॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् । न क्षमः प्रकृतं वक्तुं गुणानां तव सुव्रते ! ॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्ज्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ त्वं मया पूजिता साध्वी जननी च यथादितिः । दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ त्वया मे रक्षिताः प्राणाः पुत्त्रदाराः सुरेश्वरि ! । अहं करोमि त्वां पूज्यां प्रीतिश्च वर्द्धते मम । नित्या यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ! । तथापि तव पूजाञ्च वर्द्धयामि त्त सर्व्वतः ॥ ये त्वामाषाढसंक्रान्त्यां पूजयिष्यन्ति भक्तितः । पञ्चम्यां मनसाख्यायामीशां त्वां वा दिने दिने ॥ पुत्त्रपौत्त्रादयस्तेषां वर्द्धन्ते च धनानि च । यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः ॥ ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः । लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ त्वं स्वयं स्वर्गलक्ष्मीश्च वैकुण्ठे कमलालया । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ तपसा तेजसा त्वाञ्च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ मनसा देवितुं शक्ता स्वात्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् । तेन त्वां मनसां देवीं प्रवदन्ति पुराविदः ॥ सत्त्वरूपा च देवि ! त्वं शश्वत्सत्त्वनिषेवया । यो हि यद् भावयेन्नित्यं स तत् प्राप्नोति तत्समः ॥ इन्द्रश्च मनसां ज्ञात्वा गृहीत्वा भगिनीञ्च ताम् । प्रजगाम स्वभवनं भूषावासःपरिच्छदाम् ॥ पुत्त्रेण सार्द्धं सा देवी चिरं तस्थौ पितुर्गृहे । भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्व्वतः ॥ गोलोकात् सुरभी ब्रह्मन् ! तत्रागत्य सुपूजि- ताम् । तां स्नापयित्वा क्षीरेण पूजयामास सादरम् ॥ ज्ञानञ्च कथयामास गोप्यं सर्व्वसुदुर्लभम् । तया देव्या पूजिता सा स्वर्लोकञ्च पुनर्ययौ ॥ इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ विषं भवेत् सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् । पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत् सोऽपि निश्चितं सर्पवाहनः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४६ अध्यायः ॥ धन्वन्तरिकृतमनसाध्यानपूजादि यथा, — धन्वन्तरिरुवाच । “इहागच्छ जगद्गौरि ! गृहाण मम पूजनम् । पूज्या त्वं त्रिषु लोकेषु परा कश्यपकन्यके ! ॥ त्वया जितं जगत् सर्व्वं देवि ! विष्णुस्वरूपया । तेन तेऽस्त्रप्रयोगश्च न कृतो रणभूमिषु ॥ इत्युक्त्वा संयतो भूत्वा भक्तिनम्रात्मकन्धरः । गृहीत्वा शुक्लकुसुमं ध्यानं कर्त्तुं समुद्यतः ॥ चारुचम्पकवर्णाभां सर्व्वाङ्गसुमनोहराम् । ईषद्धास्यप्रसन्नास्यां शोभितां सूक्ष्मवाससा ॥ कवरीभारशोभाढ्यां रत्नाभरणभूषिताम् । सर्व्वाभयप्रदां देवीं भक्तानुग्रहकातराम् ॥ सर्व्वविद्याप्रदां शान्तां सर्व्वविद्याविशारदाम् ॥ नागेन्द्रवाहिनीं देवीं भजे नागेश्वरीं पराम् ॥ ध्यात्वैवं कुसुमं दत्त्वा नानाद्रव्यसमन्वितम् । दत्त्वा षोडशोपचारं पूजयामास तां प्रिये ! ॥ स्तोत्रञ्चकार भक्त्या च पुलकाञ्चितविग्रहः । पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ * ॥
धन्वन्तरिरुवाच । नमः सिद्धिस्वरूपायै सिद्धिदायै नमो नमः । नमः कश्यपकन्यायै वरदायै नमो नमः ॥ नमः शङ्करकन्यायै शङ्करायै नमो नमः । नमस्ते नागवाहिन्यै नागेश्वर्य्यै नमो नमः ॥ नमो नागभगिन्यै च योगिन्यै च नमो नमः । नमोऽस्तीकजनन्यै च जनन्यै जगतां नमः ॥ नमो जरत्कारुनाम्ने जरत्कारुस्त्रियै नमः ॥ नमश्चिरं तपस्विन्यै सुखदायै नमो नमः । नमस्तपःस्वरूपायै फलदायै नमो नमः ॥ सुशीलायै च साध्व्यै च शान्तायै ते नमो नमः । इत्येवमुक्त्वा भक्त्या च प्रणनाम प्रयत्नतः ॥ तुष्टा देवी वरं दत्त्वा सत्वरं स्वालयं ययौ ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे धन्वन्तरिदर्प- भङ्गमनसाविजयो नाम ५१ अध्यायः ॥ * ॥
(कामरूपस्थितनदीविशेषः । यथा, कालिका- पुराणे । ७४ । ३३ । “ततस्तु मनसा नाम नदी पुण्यतमा परा । सरित्सा मनसाख्या तु तृणबिन्द्ववतारिता ॥ वैशाखं सकलं मासं यस्यां स्नात्वा नरोत्तमः । विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् ॥”)



Correction: