वाचस्पत्यम्
मनस् || न० मन्यतेऽनेन मन—करणे असुन् । सर्वेन्द्रियप्रवर्त्तके अन्तरिन्द्रिये न्यायमतम् वेदान्तमते २ सङ्कल्पविकल्पा- त्मकवृत्तिमदन्तःकरणे । तच्च सुखदुःखाद्याधारः “कामः संकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भी- रित्येतत् सर्वं मन एव” श्रुतेः । न्यायमते तज्ज्ञानादि- साधनमिति भेदः । ३ मनःशिलायाञ्च शब्दच० ।
शब्दकल्पद्रुमः
मनः || [स्] क्ली, (मन्यते बुध्यतेऽनेनेति । मन् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
लिङ्गशरीरावयवविशेषः । यथा । सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी- राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि- मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनो नाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः । मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशो भवति । इति वेदान्तसारः ॥ ज्ञानेन्द्रियविशेषः । तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण- विभूतिश्च । यथा, —
“इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥” इति भगवद्गीता ॥ तच्च गभस्थस्य सप्तमे मासि जायते । इति सुखबोधः ॥ (“पञ्चमे मनः प्रतिबुद्धतरं भवति ।” इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ * ॥
)
तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४ स्वान्तम् ५ हृत् ६ मानसम् ७ । इत्यमरः । १ । ४ । ३१ ॥ अनङ्गकम् ८ अङ्गम् ९ । इति शब्दरत्नावली ॥ अपि च । “मनो महान् मतिर्ब्रह्मा पूर्ब्बुद्धिः ख्याति- रीश्वरः । प्रज्ञा संवित् चितिश्चव स्मृतिश्च परिपठ्यते । पर्य्यायवाचकाः शब्दा मनसः परिकीर्त्तिताः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥
न्यायमते अस्य गुणाः । परत्वम् । अपरत्वम् । संख्या । परिमितिः । पृथक्त्वम् । संयोगः । विभागः । वेगश्च । मनोग्राह्याणि यथा । सुखम् । दुःखम् । इच्छा । द्वेषः । मतिः । यत्नश्च । इदं परमाणुस्वरूपम् । शिरोमणि- मते वायवीयपरमाणुरूपम् । यथा, —
“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे । मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥ अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥” इति भाषापरिच्छेदः ॥ जन्यज्ञानसामान्यं प्रति त्वङ्मनोयोगः कार- णम् । यथा, तत्रैव । “त्वचो योगो मनसा ज्ञानकारणम् ॥” तस्य नवगुणा यथा, —
“धैर्य्योपपत्तिव्यक्तिश्च विसर्गः कल्पना क्षमा । सदसच्चाशुता चैव मनसो नव वै गुणाः ॥” इति मोक्षधर्म्मः ॥ अस्य व्याख्या । धैर्य्यम् १ उपपत्तिः ऊहापोह- कौशलम् २ व्यक्तिः स्मरणम् ३ विसर्गः विप- रीतसर्गो भ्रान्तिः ४ कल्पना मनोरथवृत्तिः ५ क्षमा ६ सत् वैराग्यादि ७ असत् रागद्वेषादि ८ आशुता अस्थिरत्वम् ९ । इति तट्टीका ॥ * ॥
अस्य चातुर्विध्यं यथा, —
“मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्व्वः स्मरणं विषया अमी ॥” इति वेदान्तः ॥ तस्य अध्यात्मत्वादि यथा, —
“अध्यात्मं मन इत्याहुः पञ्चभूतात्मधारकम् । अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ तस्य स्वरूपं यथा, —
“अनिरूप्यमदृश्यञ्च ज्ञानभेदं मनः स्मृतम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ तस्य प्राशस्त्याप्राशस्त्यानुमापकानि यथा, —
“जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै । शिष्ये कलत्रे कन्यायां दौहित्रे बान्धवेऽपि च ॥ पुत्त्रे पौत्त्रे च वचसि प्रतापे यशसि श्रियाम् । बुद्धौ वारिणि विद्यायां ज्ञायते हृदयं नृणाम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ तस्य बन्धमोक्षहेतुत्वं यथा, —
“मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तेर्न्निर्व्विषयं तथा ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ (“अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं चेत्याहुरेके तदर्थात्मसम्पदायत्तचेष्टम् । चेष्टाप्रत्ययभूत- मिन्द्रियाणाम् । स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचर- णाच्चानेकमेकस्मिन् पुरुषे सत्त्वरजस्तमः सत्त्व- गुणयोगाच्च न चानेकत्वं नानेकं ह्येककालमने- केषु प्रवर्त्तते ॥ तस्मान्नैककाला सर्व्वेन्द्रिय- प्रवृत्तिः । यद्गुणञ्चाभीक्ष्णं पुरुषमनुवर्त्तते सत्त्वं तत्सत्त्वमेवोपदिशन्ति ऋषयो बाहुल्यानुशयात् ॥ मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति ॥” “मनसस्तु चिन्त्यमर्थः । तत्र मनसो बुद्धेश्च त एव समानातिहीनमिथ्यायोगाः प्रकृति- विकृतिहेतवो भवन्ति ॥” इति चरके सूत्र- स्थाने अष्टमेऽध्याये ॥ “लक्षणं मनसो ज्ञानस्याभावो भाव एव वा । सति ह्यात्मेन्द्रियार्थानां सन्निकर्षेण वर्त्तते ॥ वैधृत्यान्मनसो ज्ञानं सान्निध्यात्तच्च वर्त्तते । अणुत्वमथचैकत्वं द्वौ गुणौ मनसः स्मृतौ ॥ चिन्त्यविचार्य्यमूह्यञ्च ध्येयं सङ्कल्प्यमेव च । यत्किञ्चिन्मनसो ज्ञेयं तत् सर्व्वं ह्यर्थसंज्ञकम् ॥ इन्द्रियाभिग्रहः कर्म्म मनसस्तस्य निग्रहः । ऊहो विचारश्च ततः परं बुद्धिः प्रवर्त्तते ॥ इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते । कल्प्यते मनसाप्यूर्द्धं गुणतो दोषतो यथा ॥ जायते विषये तत्र या बुद्धिर्निश्चयात्मिका । व्यवस्यते तथा वक्तुं कर्त्तुं वा बुद्धिपूर्ब्बकम् ॥ या यदिन्द्रियमाश्रित्य जन्तोर्बुद्धिः प्रवर्त्तते । याति सा तेन निर्द्देशं मनसा च मनोभवा ॥ बुद्धीन्द्रियमनोर्थानां विद्याद् योगधरं परम् ॥” इति चरके शारीरस्थाने प्रथमेऽध्याये ॥ सत्त्वगुणयुक्तस्य मनसो गुणा यथा, —
“आस्तिक्यं प्रविभज्य भोजनमनुत्तापश्च तथ्यं वचो मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानञ्च निर्द्द- म्भता । कर्म्मानिन्दितमस्पृहञ्च विनयो धर्म्मः सदैवा- दरा- देते सत्त्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः ॥” अस्ति धर्म्ममोक्षपरलोकादिकमिति बुद्ध्या चरतीत्यास्तिकस्तस्य भाव आस्तिक्यं अनु- त्तापः अक्रोधः धृतिः भूतप्रेतस्मरक्रोधलोभा- द्यावेशराहित्यं ज्ञानमात्मज्ञानम् । निर्द्दम्भता कपटाभावः कर्म्म अनिन्दितं अस्पृहं निष्का मञ्च ॥ रजोगुणयुक्तस्य मनसो गुणा यथा, —
“क्रोधस्ताडनशीलता च बहुलं दुःखं सुखे- च्छाधिका दम्भः कामुकताप्यलीकवचनं चाधीरता- हङ्कृतिः । ऐश्वर्य्यादभिमानितातिशयितानन्दोऽधिकश्चा- टनं प्रख्याता हि रजोगुणेन सहितस्यैते गुणा- श्चेतसः ॥” अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि- भ्रमणम् ॥ अथ तमोगुणयुक्तस्य मनसो गुणा यथा, —
“नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टा मतिः प्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह- र्न्निशम् । अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धता मूढता प्रख्याता हि तमोगुणेन सहितस्यैते गुणा- श्चेतसः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥
सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका- रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता- याम् । १३ । अध्याये । “मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् । मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥”)