संस्कृत-शब्दकोशः

मनीषिन् मनुज

मनु

वाचस्पत्यम्

मनु ||‍ स्त्री मन उ । १ पृक्कायाम् (पिडिङ्गशाक) राजनि० । २ मनुपत्न्याञ्च ३ प्रजापतिभेदे, ४ धमशास्त्रकर्त्तरि खाय- म्भुवादौ मुनिभेदे च पु० । मनवश्च चतुर्दश ते च हरिवं० ७ अ० उक्ता दृश्याः ।


शब्दकल्पद्रुमः

मनुः || पुं, (मन्यते इति । मन + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः ।)
ब्रह्मणः पुत्त्रः । स च प्रजापतिर्धर्म्मशास्त्रवक्ता च । इति लिङ्गादिसंग्रहे अमरः ॥ मनुष्यः । इति शब्द- रत्नावली ॥ (यथा, ऋग्वेदे । ८ । ४७ । ४ । “मनोर्विश्वस्य घेदिम आदित्याराय ईशते- ऽनेहसो वऊतयः सुऊतयो वऊतयः ॥” “मनोः मनुष्यस्य ।” इति तद्भाष्ये सायनः ॥)
जिनभेदः । इति त्रिकाण्डशेषः ॥ मन्त्रः । इति जटाधरः ॥ (यथा, गौतमीयतन्त्रे । ७ । ५ । “गोहिरण्यकवस्त्राद्यैस्तोषयेद् गुरुमात्मनः । यथा ददाति सन्तुष्टः प्रसन्नवदनो मनुम् ॥” * ॥
)
प्रतिकल्पे चतुर्द्दश मनवो भवन्ति तेषां नामानि यथा । स्वायम्भुवः १ स्वारोचिषः २ उत्तमः ३ तामसः ४ रैवतः ५ चाक्षुषः ६ एते गताः । वैवस्वतः ७ । वर्त्तमानोऽयम् । सावर्णिः ८ दक्षसावर्णिः ९ ब्रह्मसावर्णिः १० धर्म्मसावर्णिः ११ रुद्रसावर्णिः १२ देव- सावर्णिः १३ इन्द्रसावर्णिः १४ एते भविष्यन्ति । इति श्रीभागवते ८ स्कन्धे १ अध्यायः ॥ * ॥
एतेषामुत्पत्तिर्यथा, —
“आद्यो मनुर्ब्रह्मपुत्त्रः शतरूपापतिर्ब्रती । धर्म्मिष्ठानां वरिष्ठश्च गरिष्ठो मनुषु प्रभुः ॥ स्वायम्भुवः शम्भुशिष्यो विष्णुव्रतपरायणः । जीवन्मुक्तो महाज्ञानी भवतः प्रपितामहः ॥ संप्राप कृष्णदास्यञ्च गोलोकञ्च जगाम सः । दृष्ट्वा मुक्तं स्वपुत्त्रञ्च प्रहृष्टश्च प्रजापतिः ॥ तुष्टाव शङ्करं तुष्टः ससृजे मनुमन्यकम् । स च स्वयम्भूपुत्त्रश्च पुरः स्वायम्भुवो मनुः ॥ स्वारोचिषो मनुश्चैव द्वितीयो वह्रिनन्दनः । राजा वदान्यो धर्म्मिष्ठः स्वायम्भुवसमो महान् ॥ प्रियव्रतसुतावन्यौ द्वौ मनू धर्म्मिणां वरौ । तौ तृतीयचतुर्थौ च वैष्णवौ तामसोत्तमौ ॥ तौ च शङ्करशिष्यौ च कृष्णभक्तिपरायणौ । धर्म्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः ॥ षष्ठश्च चाक्षुषो ज्ञेयो विष्णुभक्तिपरायणः । श्राद्धदेवः सूर्य्यसुतो वैष्णवः सप्तमो मनुः ॥ सावर्णिः सूर्य्यतनयो वैष्णवो मनुरष्टमः । नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः ॥ दशमो ब्रह्मसावर्ण्णिर्ब्रह्मज्ञानविशारदः । ततश्च धर्म्मसावर्णिर्मनुरेकादशः स्मृतः ॥ धर्म्मिष्ठश्च वरिष्ठश्च वैष्णवानां सदा व्रती । ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः ॥ धर्म्मात्मा देवसावर्णिर्मनुरव त्रयोदशः । त्रतुर्द्दशो महाज्ञानी चेन्द्रसावर्णिरेव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥ अपि च । स्वायम्भुवः १ । स च गायत्त्र्यां ब्रह्मणो जातः । अस्य पुत्त्राः दश । अग्निध्रः । अग्निबाहुः । रिफ्फः । सबलः । ज्योतिष्मान् । द्युतिमान् । हव्यः । मेधाः । मेधातिथिः । वसुश्च । स्वारोचिषः २ । अस्य पुत्त्राश्चत्वारः । नभः । नभस्यः । प्रसृतिः । भावनश्च । औत्तमिः ३ । अस्य पुत्त्राः दश । ईषः । ऊर्ज्जः । भूर्ज्जः । शुचिः । शुक्रः । मधुः । माधवः । नभस्यः । नभः । सहश्च । तामसः ४ । अस्य पुत्त्रा दश । अकल्मषः । तपोधन्वी । तपोमूलः । तपोधनः । तपोरतिः । तपस्यः । तपोद्युतिः । परन्तपः । तपोभागी । तपोयोगी च । रैवतः ५ । तस्य पुत्त्राः दश । अरुणः । तत्त्व- दर्शी । वित्तवान् । हव्यपः । कपिः । मुक्तः । निरुत्सुकः । सत्तः । निर्म्मोहः । प्रकाशकश्च । चाक्षुषः ६ । स च ध्रुवपौत्त्रात् रिपुञ्जयात् ब्रह्मदौहित्र्यां वीरणकन्यायां वैरिण्यां जातः । तस्य भार्य्या नड्डला । तस्य पुत्त्राः दश । उरुः । पुरुः । शतद्युम्नः । तपस्वी । सत्यवाक् । कविः । अग्निष्टुप् । अतिरात्रः । स्वच्छस्वः । अभि- मन्युश्च । वैवस्वतः ७ । स च सूर्य्यात् संज्ञायां जातः । तस्य पुत्त्राः दश । इलः । इक्ष्वाकुः । कुशनाभः । अरिष्टः । रिष्ठः । नरिष्यन्तः । कुरूषः । शर्य्यातिः । पृषध्रः । नाभागश्च । सावर्णिः ८ । स च सूर्य्यात् छायायां जातः । तस्य पुत्त्राः दश । धृतिः । वरीयान् । यवसः । सुवर्णः । वृष्टिः । चरिष्णुः । ईड्यः । सुमतिः । वसुः । शुभ्र्यश्च । रौच्यः ९ । असौ रुचेः प्रजापतेः पुत्त्रः । भौत्यः १० । असौ भूतिनामक- प्रजापतेः पुत्त्रः । मेरुसावर्णिः ११ । असौ ब्रह्मणः पुत्त्रः । ऋतुः १२ । ऋतुधामा १३ । विव्वक्- सेनः १४ । इति मात्स्ये नवमाध्यायावधि एकविंशत्यध्यायपर्य्यन्तम् ॥ क्रमशस्तेषां विव- रणानि यथा, १ स्वायम्भुवः । यथा, मार्कण्डेये ५३ अध्याये ॥ “मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः । यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपर्व्वता । ससमुद्रा करवती प्रतिवर्षं निवेशिता ॥” २ स्वारोचिषः । यथा, तत्रैव ६७ अध्याये । मार्कण्डेय उवाच । “ततः स्वारोचिषं नाम्ना द्युतिमन्तं प्रजापतिम् । मनुञ्चकार भगवांस्तस्य मन्वन्तरं शृणु ॥ तत्रान्तरे तु ये देवा मुनयस्तत्सुताश्च ये । भौपालाः क्रौष्टुके ! ये तान् गदतस्त्वं निशामय ॥ देवाः पारावतास्तत्र तथैव तुषिता द्विज ! । स्वारोचिषेऽन्तरे चेन्द्रो विपश्चिदिति विश्रुतः ॥ ऊर्ज्जस्तम्बस्तथा प्राणो दत्तोलिरृषभस्तथा । निश्चरश्चार्ववीरांश्च तत्र सप्तर्षयोऽभवन् ॥ चैत्र-किंपुरुषाद्याश्च सुतास्तस्य महात्मनः । सप्तासन् सुमहावीर्य्याः पृथिवीपरिपालकाः ॥ तस्य मन्वन्तरं यावत्तावत्तद्वं शविस्तरे । भुक्तेयमवनिः सर्व्वा द्वितीयं वै तदन्तरम् ॥ स्वरोचिषस्तु चरितं जन्म स्वारोचिषस्य च । निशम्य मुच्यते पापैः श्रद्दधानो हि मानवः ॥” अस्यान्यद्विवरणं तत्रैव ६१ अध्यायमारभ्य ६६ अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ ३ औत्तमः । यथा, तत्रैव ७३ अध्याये । मार्कण्डेय उवाच । “मन्वन्तरे तृतीयेऽस्मिन् औत्तमस्य प्रजापतेः । देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम ॥ स्वधामानस्तथा देवा यथानामानुकारिणः । सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥ तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ! । शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः ॥ प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ! । चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः ॥ वशवर्त्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज ! । यथाख्यातस्वरूपास्तु सर्व एव महामुने ! ॥ एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा । मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः ॥ तेषामिन्द्रो महाभागस्तैलोक्ये स गुरुर्भवेत् । शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥ यस्योपसर्गनाशाय नामाक्षरविभूषिता । अद्यापि मानवैर्गाथा गीयते तु महीतले ॥ सुशान्तिर्देवराट् कान्तः सुशान्तिं स प्रयच्छति । सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिनः ॥ अजः परशुचिर्दिव्यो महाबलपराक्रमाः । पुत्त्रास्तस्य मनोरासन् विख्यातास्त्रिदशो- पमाः ॥ तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः । यावन्मन्वन्तरं तस्य मनोरुत्तमतेजसः ॥ चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः । कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया ॥ स्वतेजसा हि तपसो वशिष्ठस्य महात्मनः । तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन् ॥ तृतीयमेतत्कथितं तव मन्वन्तरं मया ॥” अस्यान्यद्विवरणं तत्रैव ६८ अध्यायमारभ्य ७२ अध्यायपर्य्यन्तं द्रष्टव्यम् ॥ ४ तामसः । यथा, तत्रैव ७४ अध्याये । “तामसाख्यो मनुरभूत्तस्य मन्वन्तरं शृणु । ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः । ये पुत्त्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥ सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा । एते देवगणास्तत्र सप्तविंशतिका मुने ! ॥ महाबलो महावीर्य्यः शतयज्ञोपलक्षितः । शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥ ज्योतिर्धामा पुथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥ नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा । पुत्त्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥” अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम् ॥ ५ रैवतः । यथा, तत्रैव ७५ अध्याये । मार्कण्डेय उवाच । “तामादाय ततो भूपः स्वमेव नगरं ययौ । तस्मादजायत सुतो रेवत्यां रैवतो मनुः ॥ समेतः सकलैर्धर्मैर्म्मानवैरपराजितः । विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥ तस्य मन्वन्तरे देवान् मुनिदेवेन्द्रपार्थिवान् । कथ्यमानान्मया ब्रह्मन् ! निबोध सुसमाहितः ॥ सुमेधसस्तत्र देवास्तथा भूपतयो द्विज ! । वैकुण्ठश्चामिताभश्च चतुर्द्दश चतुर्द्दश ॥ तेषां देवगणानान्तु चतुर्णांमपि चेश्वर ! । नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः ॥ हिरण्यलोमा वेदश्रीरूर्द्धबाहुस्तथापरः । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥ वशिष्ठश्च महाभागो वेदवेदान्तपारगः । एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः ॥ बलबन्धुर्महावीर्य्यः सुयष्टव्यस्तथापरः । सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः ॥ रैवतान्तास्तु मनवः कथिता ये मया तव । स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम् ॥” अस्यान्यद्विवरणं तत्रैव द्रष्टव्यम् ॥ ६ चाक्षुषः । यथा, तत्रैव ७६ अध्याये । “तस्य मन्वन्तरेशस्य येऽन्तरत्रिदशा द्विज ! । ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥ आर्य्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः । प्रख्यातकर्म्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥ प्रख्यातबलवीर्य्याणां प्रभामण्डलदुर्दृशाम् । द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥ तथैवाष्टक एवान्यो भव्याख्यो देवतागणः । चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥ लेखसं ज्ञास्तथैवान्ये तत्र मन्वन्तरे द्बिज ! । पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः ॥ शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् । मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥ सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥” अस्यान्यद्विवरणं तत्रैवाध्याये द्रष्टव्यम् ॥ ७ वैव- स्वतः । यथा, तत्रैव ७९ अध्याये । मार्कण्डेय उवाच । “आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥ आदित्या वसवो रुद्रा विज्ञेया कश्यपात्मजाः । साध्याश्च वसवो विश्वे धर्मपुत्त्रगणास्त्रयः ॥ भृगोस्तु भृगवो देवाः पुत्त्रा ह्यङ्गिरसः सुताः । एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः ॥ ऊर्ज्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् । अतीतानागता ये च वर्त्तन्ते साम्प्रतञ्च ये ॥ सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः । सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः ॥ मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः । ते शतक्रतवः सर्वे भूताभिभवतेजसः ॥ धर्माद्यैः कारणैः शुद्धैराधिपत्यगुणान्विताः । भूतभव्यभवन्नाथाः शृणु चैतत् त्रयं द्विज ! ॥ भूर्लोकोऽयं स्मृता भूमिरन्तरीक्षं दिवः स्मृतम् । दिव्याख्यश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥ अत्रिश्चैव वशिष्ठश्च काश्यपश्च महानृषिः । गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥ तथैव पुत्त्रो भगवानृचीकस्य महात्मनः । जमदग्निस्तु सप्तैते मुनयोऽत्र तथान्तरे ॥ ईक्ष्वाकुर्नाभगश्चैव धृष्टशर्मातिरेव च । नरिष्यन्तश्च विख्यातो नाभगो दिष्ट एव च ॥ कुरूषश्च प्रुषध्रुश्च वसुमान् लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्त्राः प्रकीर्त्तिताः ॥ वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् । अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम ! । मुच्यते पातकैः सर्व्वैः पुण्यञ्च महदश्नुते ॥” अस्यान्यद्विवरणं ७७-७८ अध्याययोर्द्रष्टव्यम् ॥ ८ सावर्णिः । यथा, तत्रैव ८० अध्याये । मार्कण्डेय उवाच । “कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः । पूर्ब्बजस्य मनोस्तुल्यः स मनुर्भविताष्टमः ॥ रामो व्यासो गालवश्च दीप्तिमान् कृप एव च । ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन् ॥ सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः । विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः ॥ तपस्तपश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः । प्रभासो दयितो धर्मस्तेजोरश्मिश्च वक्रतुः ॥ इत्यादिकस्तु सुतपा देवानां विंशको गणः । प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः ॥ सुराणाममितानान्तु तृतीयमपि मे शृणु । दमो दान्तो ऋतः सोमो विन्ताद्याश्चैव विंशतिः ॥ मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः ॥ मारीचस्यैव ते पुत्त्राः काश्यपस्य प्रजापतेः ॥ भविष्याश्च भविष्यन्ति सावर्ण्णस्यान्तरे मनोः । तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ! । पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः । विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक् कृतिः ॥ विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥” अस्यान्यद्विवरणं तत्रैव ८१-९३ अध्यायेषु द्रष्ट- व्यम् ॥ ९ दक्षसावर्णिः । यथा, तत्रैव ९४ अध्याये । “दक्षपुत्त्रश्च सावर्णो भावी यो नवमो मनुः । कथयामि मनोस्तस्य ये देवा मुनयो नृपाः ॥ पारामरीचिभर्गाश्च सुधर्माणस्तथा सुराः । एते त्रिधा भविष्यन्ति सर्व्वे द्वादशका गणाः ॥ तेषामिन्द्रो भविष्यस्तु सहस्राक्षो महाबलः । साम्प्रतं कार्त्तिकेयो यो वह्रिपुत्त्रः षडाननः ॥ अद्भुतो नाम शक्रोऽसौ भावी तस्यान्तरे मनोः । मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमांस्तथा ॥ सप्तर्षयोऽन्यः सबलस्तथान्यो हव्यवाहनः । धृष्टकेतुर्वर्हकेतुः पञ्चहस्तो निरामयः । पृथुश्रवास्तथार्चिष्मान् भूद्युरिम्नो बृहद्भयः ॥ एते नृपसुतास्तस्य दक्षपुत्त्रस्य वै नृपाः ॥” १० ब्रह्मसावर्णिः । यथा, तत्रैव ९४ अध्याये ॥ “मनोस्तु दशमस्यान्यच्छृणु मन्वन्तरं द्विज ! ॥ मन्वन्तरे च दशमे ब्रह्मपुत्त्रस्य धीमतः । सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराः स्मृताः । शतसंख्या हि ते देवा भविष्या भाविनो मनोः । यत् प्राणिनां शतं भावि तद्देवानां तदा शतम् ॥ शान्तिरिन्द्रस्तथा भावी सर्व्वैरिन्द्रगुणैर्युतः । सप्तर्षींस्तान् निबोध त्वं ये भविष्यन्ति वै तदा ॥ आपोमूर्त्तिर्हविष्मांश्च सुकृती सत्य एव च । नाभागोऽप्रतिमश्चैव वाशिष्ठश्चैव सप्तमः ॥ सुक्षेत्रश्चोत्तमौजाश्च भूमिसेनश्च वीर्य्यवान् । शतानीकोऽथ वृषभो ह्यनमित्रो जयद्रथः ॥ भूरिद्युम्नः सुपर्व्वा च तस्यैते तनया मनोः ॥” ११ धर्म्मसावर्णिः । यथा, तत्रैव । “भविष्या धर्मपुत्त्रस्य सावर्णस्यान्तरं शृणु ॥ विहङ्गमाः कामगाश्च निर्माणरतयस्तथा । त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशतो गणाः ॥ मासर्तुर्दिवसा ये तु निर्माणपतयस्तु ते । विहङ्गमा रात्रयोऽथ मौहूर्त्ताः कामगा गणाः ॥ इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमः । हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ॥ निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः । सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥ सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरूद्बहः । हेमधन्वा दृढायुश्च भाविनस्तत्सुता नृपाः ॥” १२ रुद्रसावर्णिः । यथा, तत्रैव । “द्वादशे रुद्रपुत्त्रस्य प्राप्ते मन्वन्तरे मनोः । सावर्णाख्यस्य ये देवा मुनयश्च शृणुष्व तान् ॥ सुधर्माणः मुमनसो हरिता रोहितास्तथा । सुवर्णाश्च सुरास्तत्र पञ्चैते दशका गणाः ॥ तेषामिन्द्रस्तु विज्ञेय ऋतधामा महाबलः । सर्वैरिन्द्रगुणैर्युक्तः सप्तर्षीनपि मे शृणु ॥ द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः । तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः ॥ देववानुपदेवश्च देवश्रेष्ठो विदूरथः । मित्रवान् मित्रविन्दश्च भाविनस्तत्सुता नृपाः ॥” १३ रौच्यः । यथा, तत्रैव । “त्रयोदशस्य पर्य्याये रौच्याख्यस्य मनोः सुतान् । सप्तर्षींश्च नृपांश्चैव गदतो मे निशामय ॥ सुधर्माणः सुरास्तत्र सुकर्माणस्तथापरे । सुशर्माणः सुरा ह्येते समस्ता मुनिसत्तम ! ॥ महाबलो महावीर्य्यस्तेषामिन्द्रो दिवस्पतिः । भविष्यानथ सप्तर्षींन् गदतो मे निशामय ॥ धृतिमानव्ययश्चैव तत्त्वदर्शी निरुत्सुकः । निर्मोहः सुतपाश्चान्यो निष्प्रकम्पश्च सप्तमः ॥ चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः । सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः ॥” १४ भौत्यः । यथा, तत्रैव १०० अध्याये । “भौत्यो नाम मनुस्तस्य पुत्त्रो भूतेरजायत । तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु ॥ भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् । देवेन्द्रो यश्च भविता तस्य विख्यातकर्मणः ॥ चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा । धारावृकाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ शचिरिन्द्रस्तदा तेषां त्रिदशानां भविष्यति । महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः ॥ अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः । शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥ गुरुर्गभीरो व्रध्नश्च भरतोऽनुग्रहस्तथा । स्त्रीमानी च प्रतीरश्च विष्णुः संक्रन्दनस्तथा ॥ तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः । चतुर्दश मयैतत्ते मन्वन्तरमुदाहृतम् ॥” मन्वन्तरकथाश्रवणफलमाह तत्रैव १०० अध्याये । “श्रुत्वा मन्वन्तराणीत्थं क्रमेण मुनिसत्तम ! । पुण्यमाप्नोति मनुजस्तथाक्षीणाञ्च सन्ततिम् ॥ श्रुत्वा मन्वन्तरं पूर्ब्बं धर्ममाप्नोति मानवः । स्वारोचिषस्य श्रवणात् सर्वकामानवाप्नुते ॥ औत्तमेर्धनमाप्नोति ज्ञानञ्चाप्नोति तामसे । रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् ॥ आरोग्यञ्चाक्षुषे पुंसां श्रुते वैवस्वते बलम् । गुणवत्पुत्त्रपौत्त्रन्तु सूर्य्यसावर्णिके श्रुते ॥ माहात्म्यं ब्रह्मसावर्णे धर्मसावर्णिके शुभम् । मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् ॥ ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते । निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तम ! ॥ देवप्रसादमाप्नोति भौत्ये मन्वन्तरे श्रुते । तथाग्निहोत्रं पुत्त्रांश्च गुणयुक्तानवाप्नुते ॥ सर्वाण्यनुक्रमाद्यश्च शृणोति मुनिसत्तम ! । मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् ॥ तत्र देवानृषीनिन्द्रान्मनूं स्तत्तनयान्नृपान् । वंशांश्च श्रुत्वा सर्वेभ्यः पापेभ्यो विप्रमुच्यते ॥ देवर्षीन्द्रनृपाश्चान्ये ये तन्मन्वन्तराधिपाः । ते प्रीयन्ते तथा प्रीताः प्रयच्छन्ति शुभां मतिम् ॥ ततः शुभां मतिं प्राप्य कृत्वा कर्म तथा शुभम् । शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्दश ॥ सर्वे स्युरृतवः क्षेम्याः सर्वे सौम्यास्तथा ग्रहाः । भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् ॥” * ॥
विष्णुः । यथा, महाभारते । १३ । १४९ । १९ । “विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठो स्थविरो ध्रुवः ॥” मननप्रधानो विद्बान् । यथा, वाजसनेयसंहि- तायाम् । १५ । ४९ । “तस्मिन्नहं निदधे नाकेऽग्निं यमाहुर्मनवस्तीर्ण- बर्हिषम् ॥” “मनवः मननप्रधाना विद्वांसः ॥” इति तद्भाष्ये महीधरः ॥ * ॥
अन्तःकरणम् । यथा, भागवते । ६ । ४ । २५ । “देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्युञ्च विदुः परं यत् ॥” “मनवोऽन्तःकरणानि ।” इति तट्टीकायां श्रीधरः ॥ कृशाश्वस्य पुत्त्रभेदः । यथा, भागवते । ६ । ६ । २० । “कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् । विषण्णायां वेदशिरः देवलं वयुनं मनुम् ॥”)


शब्दकल्पद्रुमः

मनुः || स्त्री (मन् + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः ।)
पृक्का । इति राज- निर्घण्टः ॥ (मनोः पत्नीति । मनु + “मनोरौ वा ।” ४ । १ । ३८ । इत्यत्र “वा ग्रहणेन द्बावपि विकल्प्येते । तेन त्रैरूप्यं भवति । मनोः स्त्री मनायी मनावी मनुः ।” इति काशिकोक्तेः पक्षे ङीबभावः ।)
मनुपत्नी । इति लिङ्गादिसंग्रहे अमरः ॥



Correction: