संस्कृत-शब्दकोशः

मनोयोनि मनोरम

मनोरथ

वाचस्पत्यम्

मनोरथ ||‍ पु० मनएव रथोऽत्र, मनसो रथैव वा इष्य- माणप्रापकत्वात् । इच्छायाम् अमरः ।


शब्दकल्पद्रुमः

मनोरथः || पुं, (मनसः रथ इव । मन एव रथो- ऽत्रेति वा)
इच्छा । इत्यमरः । १ । ७ । २७ ॥ (यथा, रघौ । ११ । ५९ । “इतस्ततश्च वैदेहीमन्वेष्टुं भर्त्तृचोदिताः । कपयश्चेरुरार्त्तस्य रामस्येव मनोरथाः ॥” कविविशेषः । यथा, राजतरङ्गिण्याम् । ४ । ५९६ । “मनोरथः शङ्खद्त्तश्चटकः सन्धिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥”)



Correction: