संस्कृत-शब्दकोशः

मन्त्र मन्त्रगण्डक

मन्त्रकृत्

वाचस्पत्यम्

मन्त्रकृत् ||‍ त्रि० मन्त्रं तत्स्मरणं वा कृतवान् कृ—भते क्विप् । १ मन्त्रणाकारके २ वेदमन्त्राणां स्मरणकर्त्तरि ३ ऋषिभेदे पु० परिशिष्टखण्डे दृश्यम् ।


शब्दकल्पद्रुमः

मन्त्रकृत् || पुं, (मन्त्रं कृतवान् । मन्त्र + कृ + क्विप् । तुगागमश्च ।)
मन्त्री । मन्त्रणाकारकः । इति सिद्धान्तकौमुदी ॥ (दौत्यकारी । यथा, श्रीमद्भागवते । ३ । १ । २ । “यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥” “मन्त्रकृत् दौत्यकर्त्ता सन् ।” इति तट्टीकायां श्रीधरखामी ॥ * ॥
त्रि, मन्त्रप्रयोगकारी । यथा, रघुवंशे । १ । ६१ । “तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥” “मन्त्रकृतः मन्त्राणां स्रष्टुः प्रयोक्तुर्वा ।” इति तट्टीकायां मल्लिनाथः ॥)



Correction: