शब्दकल्पद्रुमः
मन्त्रगृहं || क्ली (मन्त्रस्य मन्त्रणायाः गृहम् ।) मन्त्रणागारम् । (यथा, महाभारते । १५ । ५ । २२ । “सुसंवृत्तं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः । अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥”)