वाचस्पत्यम्
मन्थर || न० मन्थ—अरच् । १ कुसुम्भ्याम् । २ कोषे ३ फले, बाधे मन्थानदण्डे च पु० ५ वक्रे ६ पृथौ ७ मन्दे च त्रि० मेदि० “मदर्थसन्देशमृणालमन्थरः” नैष० । ८ जडे शब्दर० । ९ नीचे हेम० । १० सूचके विश्वः० १ केकैय्याः दास्यां स्त्री ।
शब्दकल्पद्रुमः
मन्थरं || क्ली (मन्थति क्लेशयतीति । मन्थ + बाहुल- कात् अरन् ।)
कुसुम्भी । इति मेदिनी । रे, १९८ ॥
शब्दकल्पद्रुमः
मन्थरः || त्रि (मन्थति पादाविति । मथि + अरन् ।)
मन्दः । (यथा, साहित्यदर्पणे । ३ । ६८ “दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः- पुरात् ॥”)
पृथुः । वक्रः । इति मेदिनी । रे, १९८ ॥ (निश्चलः । यथा, आर्य्यासप्तशत्याम् । ४८८ । “राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य । गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥”)
जडः । इति शब्दरत्नावली ॥ नीचः । इति हेमचन्द्रः । ६ । ६५ ॥ (मन्दगामी । इति हेमचन्द्रः । ३ । १५९ ॥)
शब्दकल्पद्रुमः
मन्थरः || पुं, (मन्थ + बाहुलकात् अरन् ।)
कोषः ॥ फलम् । वाधः । मन्थानः । इति मेदिनी । रे, १९८ ॥ सूचकः । इति विश्वः ॥ मन्दगामि- योद्धा । इति क्षत्त्रियवर्गे अमरः । २ । ८ । ७२ । कोपः । इत्यजयः ॥