संस्कृत-शब्दकोशः

मन्था मन्थानक

मन्थान

वाचस्पत्यम्

मन्थान ||‍ पु० मन्थ—आनच् । १ मन्थनदण्डे अमरः । २ आरग्बधवृक्षे राजनि० ।


शब्दकल्पद्रुमः

मन्थानः || पुं, (मथ्यते अनेनेति । मन्थ + बाहुलकात् आनच् ।)
मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, देवीभागवते । १ । १० । २५ । “मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः । पावकस्य यथा तद्वत् कथं मे स्यात् सुतोद्भवः ॥”)
आरग्वधः ॥ इति राजनिर्घण्टः ॥ (समुद्र- मन्थनदण्डकत्वादस्य तथात्वम् । मन्दरपर्व्वतः । यथा, रामायणे । १ । ४५ । २७ । “प्रविवेशाथ पातालं मन्थानः पर्व्वतोत्तमः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १२८ । “मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)



Correction: