शब्दकल्पद्रुमः
मन्दसानः || पुं, (मन्दते स्तुत्यादिकं प्राप्नोतीति । मन्द + “ऋञ्जिवृधिमन्दिसहिभ्यः कित् ।” उणा० २ । ८७ । इति असानच् ।)
अग्निः । प्राणः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ निद्रा । इत्युणादिकोषः ॥ (त्रि, मोदमानः । यथा, ऋग्वेदे । १ । १०० । १४ । “मन्दसानो मरुत्वान् ।” “मन्दसानो मोदमानः सन् ॥” इति तद्भाष्ये सायनः ॥)