शब्दकल्पद्रुमः
मन्दायुः || [स्] त्रि, (मन्दमल्पमायुर्यस्य ।) अल्पायुः । यथा, श्रीभागवते । १ । १६ । १० । “मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्म्मभिः ॥”