संस्कृत-शब्दकोशः

मन्दिरा मन्दोदरी

मन्दुरा

वाचस्पत्यम्

मन्दुरा ||‍ स्त्री मदि—उरच् । १ अश्वशालायाम् अमरः । २ शयनीयकटे च (मादुर) मेदि० ।


शब्दकल्पद्रुमः

मन्दुरा || स्त्री (मन्दन्ते स्वपन्ति मोदन्ते वा अश्वा यत्र । मन्द + “मन्दिवाशिमथीति ।” उणा० १ । ३९ । इति उरच् । स्त्रियां टाप् ।)
वाजि- शाला । इत्यमरः । २ । २ । ७ ॥ (यथा, नैषध- चरिते । १ । ५७ । “उपाहरन्नश्वमजस्रचञ्चलैः क्षुराञ्चलैः क्षोभितमन्दुरोदरम् ॥”)
शयनीयार्थवस्तु । इति मेदिनी । रे, २०० ॥ मादुर इति भाषा ॥



Correction: