संस्कृत-शब्दकोशः

मन्द्र मन्मथानन्द

मन्मथ

वाचस्पत्यम्

मन्मथ ||‍ पु० मननं मत् मन—क्विप् मथति अच् ६ त० । १ कन्दर्पे २ कपित्थवृक्षे च अमरः ३ कासचिन्तायां मेदि० ।


शब्दकल्पद्रुमः

मन्मथः || पुं, (मनो मथ्नाति विकरोतीति । मन्थ् + पचाद्यच् । पृषोदरादित्वात् साधुः । अस्य नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते । १ । ४ । ७ । “मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनाम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥”)
कामदेवः । (यथा, नैषधचरिते । ८ । २९ । “न मन्मथस्त्वं स हि नास्तिमूर्त्तिः ॥”)
कपित्थवृक्षः । इत्यमरः । १ । ४ । २१ ॥ काम- चिन्ता । इति मेदिनी । थे, २२ ॥ * ॥
काम- देवस्योत्पत्तिर्यथा, —
“एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः । मनसः पुरुषो वल्गुराविर्भूतो विनिःसृतः ॥ काञ्चनीचूर्णपीताभः पीनोन्नतसुनासिकः । सुवृत्तोरुकटीजङ्घो नीलावल्लितकेशकः ॥ लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः । कपाटविस्तीर्णहृदि रोमराजीविराजितः ॥ शुभ्रमातङ्गकरवत्पीननिस्तलबाहुकः । आरक्तपाणिनयनमुखपादकरोद्भवः ॥ क्षीणमध्यश्चारुदन्तः प्रमत्तगजकन्धरः । प्रफुल्लपद्मपत्राक्षः केशरघ्राणतर्पणः ॥ कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः । पञ्चपुष्पायुधो योगी पुष्पकोदण्डमण्डितः ॥ कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् । सुगन्धिमारुताभ्रान्तं शृङ्गाररससेवितम् ॥ वीक्ष्य तं तादृशं दक्षप्रमुखा मानसाश्च ते । मरीच्याद्या दश ततो विस्मयाविष्टचेतसः ॥ औत्सुक्यं परमं जग्मुरापुर्व्वैकारिकं मनः । स चापि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् । प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥ श्रीपुरुष उवाच । किं करिष्याम्यहं कर्म्म ब्रह्मंस्तत्र नियोजय । मानाय्ये पुरुषो यस्मादुचिते शोभिते विधे ॥ अभिधानञ्च यद्योग्यं स्थानं पत्नी च या मम । तन्मे कुरुव्व लोकेश ! स्रष्टा त्वं जगतां यतः ॥ मार्कण्डेय उवाच । एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः । क्षणं न किञ्चित् प्रोवाच स्वसृष्टावपि विस्मितः ॥ ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् । उवाच पुरुषं ब्रह्मा तत्कर्म्मोद्देशमावहन् ॥ ब्रह्मोवाच । अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः । मोहयन् पुरुषांस्त्रींश्च कुरु सृष्टिं सनातनीम् ॥ न देवा न च गन्धर्व्वा न किन्नरमहोरगाः । नासुरा न च दैत्या वा न विद्याधरराक्षसाः ॥ न यक्षा न पिशाचाश्च न भूता न विनायकाः । न गुह्यका न सिद्धाश्च न मनुष्या न पक्षिणः ॥ पशवो न मृगाः कीटाः पतङ्गा जलजाश्च ये । न ते सर्व्वे भविष्यन्ति न लक्ष्या ये शरस्य ते ॥ अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तम ! । भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः ॥ प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदये सदा । सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ॥ त्वत्पुष्पबाणस्य सदा मुख्यं लक्ष्यं मनोऽस्तु च । सर्व्वेषां प्राणिनां नित्यं मदमोदकरो भवान् ॥ इति ते कर्म्म कथितं सृष्टिप्रावर्त्तकं पुनः । नामानि च गदिष्यामि यत्ते योग्यं भवि- ष्यति ॥ मार्कण्डेय उवाच । इत्युक्त्वाथ सुरश्रेष्ठो मानसानां मुखानि च । आलोक्य चासने पद्मे सूपविष्टोऽभवत् क्षणात् ॥” इति कालिकापुराणे कामप्रादुर्भावो नाम १ अध्यायः ॥ मार्कण्डेय उवाच । “ततस्ते मुनयः सर्व्वे तदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा ॥ मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयश्च स्रष्टारः स्थानं पत्नीञ्च ते ददुः ॥ ततो निश्चित्य नामानि मरीचिप्रमुखा द्बिजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय द्बिजोत्तमाः ॥ ऋषय ऊचुः । यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनान्मा त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥ त्वदाशुगानां यद्बीर्य्यं तद्वीर्य्यं न भविष्यति । वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ॥ स्वर्गो मर्त्यश्च पातालं ब्रह्मलोकः सनातनः । अवस्थानानि सर्व्वाणि सर्व्वव्यापी भवान् यतः ॥ किंवा चापि विशेषेण सामान्ये नास्ति ते समः । यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा ॥ तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् । दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभ- नाम् ॥” इति कालिकापुराणे २ अध्यायः ॥



Correction: