संस्कृत-शब्दकोशः

मन्मन मन्याका

मन्या

वाचस्पत्यम्

मन्या ||‍ स्त्री सेट्—मन—क्यप् । ग्रीवायाः पश्चाद्देशस्थायां सिरायाम् अमरः ।


शब्दकल्पद्रुमः

मन्या || स्त्री (मन्यते ज्ञायते स्तम्मदुःखादिकमनया । मन् + करणे क्यप् । स्त्रियां टाप् ।)
ग्रीवायाः पश्चात् शिरा । इत्यमरः । २ । ६ । ६५ ॥ (यथा, सुश्रुते उत्तरतन्त्रे २५ अध्यायः । “दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटां सुरुजां मुतीव्राम् । कुर्व्वन्ति साक्षिभ्रुवशङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ॥”)



Correction: