वाचस्पत्यम्
मन्वन्तर || न० मनूनामन्तरमवकाशस्तदुपलक्षितकालो वा । १ स्वायम्भुवादिमनूनामधिकारे २ तदुपलक्षिते काले च सत्ययुगमितवर्षाधिका एकसप्ततिचतुर्युगमिता (३११४४४- ८०००) वर्षास्तदवकाश इति पुराणम् ।
शब्दकल्पद्रुमः
मन्वन्तरं || क्ली (मनोरन्तरमस्मिन्निति ।)
दिव्यानां युगानामेकसप्ततिः । इत्यमरः । १ । ४ । २२ ॥ देव- मानेनैकसप्ततियुगानि मन्वन्तरमुच्यते मनो- रन्तरमवकाशोऽवधिर्वा अस्मिन्निति मन्वन्तरम् । “एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः । कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥” इति लिङ्गपुराणम् ॥ मनवः स्वायम्भुवादयस्तेषामन्तरमवकाशोऽ- वधिर्वा मन्वन्तरमिति वा । एकसप्ततिरिति यद्यपि गणनया अर्द्धयुगेनाधिका । “दैविकानां युगानान्तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागाश्चतुर्द्दश ॥” तत्किञ्चिदधिका दिव्ययुगानामेकसप्ततिरिति नामविधाने सर्व्वज्ञनारायणेनोक्तत्वात् तथापि अल्पत्वादिह नोक्तम् । मन्वन्तरस्य संख्यात- वर्षाणि यथा, —
“त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः । सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥ विंशतिस्तु सहस्राणि कालो यः साधिकां विना । मन्वन्तरस्य संख्यैषा लिङ्गेऽस्मिन् कथिता द्विजाः ॥” एतदङ्का यथा, ३०६,७२०,००० । एवं चतुर्दश- मन्वन्तरैर्ब्रह्मदिनम् । युगानि यथा लैङ्गे । “पूर्ब्बं कृतयुगं नाम ततस्त्रेता विधीयते । द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः ॥” युगमानानि यथा, —
“चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ॥” इति ॥ अन्यत्र च । “चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् । तस्य तावत् सती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥” इति ॥ अस्यार्थः । देवमाने सत्यस्य वर्षाणि ४००० चतुःसहस्राणि सन्ध्यावर्षाणि ४०० चत्वारि शतानि सन्ध्यांशवर्षाणि ४०० चत्वारि शतानि । एवं देवमाने सत्यस्य वर्षाणि अष्टशताधिकचतुः- सहस्राणि ४८०० एवं त्रेतायाः षट्शताधिक- त्रिसहस्रं ३६०० एवं द्वापरस्य चतुःशताधिकं द्विसहस्रम् २४०० एवं कलेः शतद्वयाधिकमेक- सहस्रम् १२०० समुदायेन द्बादशसहस्राणि १२००० । मानुषमानेन सत्यादीनां मानं यथा, ज्योतिषे । “वस्वश्विमैत्रा ऋतुरन्ध्रमासा वेदा रसाष्टौ भुजवह्निवेदाः । एतानि शून्यत्रयताडितानि युगाब्दसंख्याः परिकीर्त्तितानि ॥” एतदङ्कैर्दृश्यते सत्यस्य यथा, १,७२८,००० । त्रेताया यथा, १, २९६, ००० । द्वापरस्य यथा, ८६४,००० । कलेर्यथा, ४३२,००० । समुदायेन ४,३२०,००० । अपरं ब्राह्मवर्षादिमानं बाहुल्य- भिया नोक्तम् । इति तट्टीकायां भरतः ॥ अपि च । ब्रह्मणो दिनमध्ये चतुर्द्दशमन्वन्त- राणि भवन्ति । एको मनुर्यावदधिकारी भवति स कालो मन्वन्तरसंज्ञको भवति । तत्र मनूनां नामानि । प्रथमः स्वायम्भुवो मनुः । द्वितीयः स्वारोचिषो मनुः । तृतीय उत्तमो मनुः । चतुर्थस्तामसो मनुः । पञ्चमो रैवतो मनुः । षष्ठश्चाक्षुषो मनुः । सप्तमो वैवस्वतो मनुः । वर्त्तमानोऽयम् ॥ अष्टमः सावर्णिर्मनुः । नवमो दक्षसावर्णिर्मनुः । दशमो ब्रह्मसावर्णिर्मनुः । एकादशो धर्म्मसावर्णिर्मनुः । द्वादशो रुद्र- सावर्णिर्मनुः । त्रयोदशो देवसावर्णिर्मनुः । चतुर्दश इन्द्रसावर्णिर्मनुः । प्रतिमन्वन्तरं भग- वदवतारेन्द्रदेवगणसप्तर्षिमनुमनुपुत्त्रादयः पृथक् पृथग्भवन्ति । यथा । स्वायम्भुवे मन्वन्तरे यज्ञोऽवतारः स एवेन्द्रः । यमादयो देवाः । मरीचिप्रभृतयः सप्तर्षयः । स्वायम्भुवो मनुः । प्रियव्रतोत्तानपादौ मनुपुत्त्रौ ॥ १ ॥ स्वारोचिषे विभुरवतारः । रोचन इन्द्रः । देवास्तुषिता- दयः । ऊर्ज्जस्तम्भादयः सप्तर्षयः । अग्निसुतः स्वारोचिषो मनुः । द्युमत्सेनरोचिष्मत्प्रमुखा मनुपुत्त्राः ॥ २ ॥ उत्तमे सत्यसेनोऽवतारः । सत्यजिदिन्द्रः । सत्यवेदश्रुतभद्रादयो देवाः । वशिष्ठसुताः सप्तर्षयः प्रमदादयः । प्रियव्रतसुत उत्तमो मनुः । पवनसृञ्जययज्ञहोत्राद्यास्तत्- सुताः ॥ ३ ॥ तामसे हरिरवतारः । त्रिशिख इन्द्रः । वैधृतादयो देवाः । ज्योतिर्धामादयः सप्तर्षयः । तामसो मनुः । वृषख्यातिनरादय- स्तत्सुताः ॥ ४ ॥ रैवते विकुष्ठोऽवतारः । विभु- रिन्द्रः । भूतरयादयो देवाः । हिरण्यरोमा- दयः सप्तर्षयः । रैवतो मनुः । बलिबिन्ध्यादय स्तत्सुताः ॥ ५ ॥ चाक्षुषे अजितोऽवतारः । मन्दद्रुम इन्द्रः । अप्यादयो देवाः । हर्य्यश्व- द्वीरकादयः सप्तर्षयः । चाक्षुषो मनुः । पुरु- पुरुषसुद्युम्नादयस्तत्सुताः ॥ ६ ॥ वैवस्वते वामनोऽवतारः । पुरन्दर इन्द्रः । आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा अश्विनावृषभ इत्याद्या देवाः । कश्यपोऽत्रिर्वशिष्ठो विश्वा- मित्रो गोतमो जमदग्निर्भरद्वाज एते सप्तर्षयः । वैवस्वतो मनुः । इक्ष्वाकुः नृगः शर्यातिः दृष्टः धृष्टः करूषकः नरिष्यन्तः पृषध्रः नाभागः कविः एते मनुपुत्त्रा दश ॥ ७ ॥ अथ भवि- ष्याणि । सावर्णिके सार्व्वभौमोऽवतारः । वलि- रिन्द्रः । सुतपसो विरजा अमृतप्रभा देवाः । गालवः दीप्तिमान् परशुरामः अश्वत्थामा कृपः ऋष्यशृङ्गः व्यासः एते सप्तर्षयः । सावर्णिर्मनुः । निर्म्मोकविरजस्काद्यास्तत्सुताः ॥ ८ ॥ दक्ष- सावर्णिके ऋषभोऽवतारः । श्रुत इन्द्रः । पार- मरीचिगर्भाद्या देवाः । द्युतिमदाद्याः सप्तर्षयः । दक्षसावर्णिर्मनुः । भूतकेतुदीप्तिकेत्वाद्यास्तत्- सुताः ॥ ९ ॥ ब्रह्मसावर्णिके विव्वक्सेनोऽव- तारः । शम्भुरिन्द्रः । सुरसेनविरुद्धाद्या देवाः । हविष्मदाद्याः सप्तर्षयः । ब्रह्मसावर्णिर्मनुः । भूरिसेनाद्यास्तत्सुताः ॥ १० ॥ धर्म्मसावर्णिके धर्म्मसेतुरवतारः । वैधृत इन्द्रः । विहङ्गम- कामगमाद्या देवाः । अरुणादयः सप्तर्षयः । धर्म्मसावर्णिर्मनुः । सत्यधर्म्मादयस्तत्सुताः ॥ ११ ॥ रुद्रसावर्णिके । सुधामाख्योऽवतारः । ऋत- धामा इन्द्रः । हरितादयो देवाः । तपोमूर्त्त्या- दयः सप्तर्षयः । रुद्रसावर्णिर्मनुः । देववदुपदेवा- दयस्तत्सुताः ॥ १२ ॥ देवसावर्णिके योगेश्वरो- ऽवतारः । दिवस्पतिरिन्द्रः । सुकर्म्मसूत्राद्या देवाः । निर्म्मोकतत्त्वदर्शाद्याः सप्तर्षयः । देव सावर्णिर्मनुः । चित्रसेनविचित्राद्यास्तत्सुताः ॥ १३ ॥ इन्द्रसावर्णिके बृहद्भानुरवतारः । शुचि- रिन्द्रः । पवित्रचाक्षुषादयो देवाः । अग्नि- बाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । इन्द्र- सावर्णिर्मनुः । उरुगम्भीरवृध्नाद्यास्तत्सुताः ॥ १४ ॥ अथैतेषां कर्म्मोच्यते । इन्द्रो देवराट् यथावर्षी च । मनुरादौ पृथिव्यां राजा भवति तत्पुत्त्रपौत्त्रादयो मन्वन्तरसमाप्तिपर्य्यन्तं राजानो भवन्ति । देवताः पुजानां यज्ञादि- कर्म्मतुष्टास्तत्फलं प्रयच्छन्ति । सप्तर्षयो धर्म्म- शास्त्राणि प्रकाशयन्ति । भगवदवतारा एतान् स्वस्वकर्म्मणि नियोजयन्ति दैत्यराक्षसादीन् धर्म्मद्रुहो घ्नन्ति च । चतुर्द्दशमन्वन्तरैर्ब्रह्मण एकं दिनं भवति तन्मनुष्यमानेनैकः कल्पः । त्रिंशत्कल्पैर्ब्रह्मण एको मासो भवति । इति श्रीभागवतमतम् ॥ * ॥
अन्यच्च । “वर्षलक्षाणि चत्वारि भवेत् कलियुगं क्रमे । द्वात्रिंशत्या सहस्रैस्तु सहितान्यपि संख्यया ॥ चतुःषष्टिसहस्राणि लक्षाण्यष्टौ च संख्यया । वर्षाणां द्वापरं प्रोक्तं युगं पूर्ब्बनिदर्शनात् ॥ त्रेता द्वादशलक्षाणि वर्षाणां परिकीर्त्तिता । षण्णवत्या सहस्रैस्तु संयुक्तानि भवन्ति हि ॥ दश सप्त च लक्षाणां वर्षाणाञ्च कृतं युगम् । सहस्रैरष्टविंशत्या संयुतान्यपि संख्यया ॥ त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः । मानुषेण प्रमाणेन भवेत् चातुर्युगं क्रमात् ॥ सप्तषष्टिश्च लक्षाणि त्रिंशत्कोट्यस्तथैव च । विंशतिश्च सहस्राणि मन्वन्तरमिहोच्यते ॥ चतुर्युगैकसप्तत्या मन्वन्तरमिति श्रुतिः । कल्पो मन्वन्तरैरेभिश्चतुर्द्दशभिरुच्यते ॥ कोट्यो द्बादश षट्त्रिंशल्लक्षाणि तु भवन्ति च । अष्टाशीतिसहस्राणि जीवेत् स्वायम्भुवो मनुः ॥” इति वह्निपुराणम् ॥ अपरञ्च । मार्कण्डेय उवाच । “मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः । एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् ॥ तदेकसप्ततियुगैर्देवानामिह जायते । तैश्चतुर्द्दशभिः कल्पो दिनमेकन्तु वेधसः ॥” इति कालिकापुराणे २७ अध्यायः ॥ अन्यदपि । “मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् । मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् । भवता कथितानेतान् श्रोतुमिच्छाम्यहं गुरो ! ॥ श्रीपराशर उवाच । अतीतानागतानीह यानि मन्वन्तराणि वै । तान्यहं भवतः सम्यक् कथयामि समासतः ॥ स्वायम्भुवो मनुः पूर्ब्बं मनुः स्वारोचिषस्तथा । औत्तमिस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ षडेते मनवोऽतीताः साम्प्रतन्तु रवेः सुतः । वैवस्वतोऽयं तस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ॥ स्वायम्भुवन्तु कथितं कल्पादावन्तरं मया । देवास्तत्रर्षयश्चैव यथावत् कथिता मया ॥ १ ॥ अत ऊर्द्धं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु । मन्वन्तराधिपान् सम्यग्देवर्षी स्तत्सुतांस्तथा ॥ पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ ओजस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा । विश्वरश्चार्व्वरीवांश्च तत्र सप्तर्षयोऽभवन् ॥ चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ २ ॥ तृतीयेऽप्यन्तरे ब्रह्मन्नौत्तमिर्नाम यो मनुः । सुशान्तिर्नाम तत्रेन्द्रो मैत्रेयाभूत् सुरेश्वरः ॥ सुधामानस्तथा सत्याः शिवाश्चाथ प्रतर्द्दनाः । वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ वशिष्ठतनयास्तत्र सप्त सप्तर्षयोऽभवन् । अजः परशुदिव्याद्यास्तथौत्तमिमनोः सुताः ॥ ३ ॥ तामसस्यान्तरे देवाः स्वरूपा हरयस्तथा । मत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षणः । सप्तर्षयश्च ये तत्र तेषां नाम्मनि मे शृणु ॥ ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्व्वतक- स्तथा । पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ नरः ख्यातिः शान्तहयो जानुजङ्गादयस्तथा । पुत्त्रास्तु तामसस्यासन् राजानः सुमहा- बलाः ॥ ४ ॥ पञ्चमे चापि मैत्रेय ! रैवतो नाम नामतः । मनुर्विभुश्च तत्रेन्द्रो देवांश्चैवान्तरे शृणु ॥ अमिताभा भूतरया वैङ्कुटाश्च सुमेधसः । एते देवगणास्तत्र चतुर्द्दश चतुर्द्दश ॥ हिरण्यरोमा वेदश्रीरूर्द्धबाहुस्तथापरः । वेदबाहुः सुधामा च पर्ज्जन्यश्च महामुनिः । एते सप्तर्षयो विप्र ! तत्रासन् रैवतान्तरे ॥ बलबन्धुः सुसम्भाव्यः सत्यकामाश्च तत्सुताः । नरेन्द्राः सुमहावीर्य्या बभूवुर्मुनिसत्तम ! ॥ स्वारोचिषश्चौत्तमिस्तु तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः । मन्वन्तराधिपानेतान् लब्धवानात्मवंशजान् ॥ ५ ॥ षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तदा मनुः । मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ आर्य्याः प्रसूता भव्याश्च पृथुगाश्च दिवौकसः । महानुभावा लेखाश्च पञ्चैतेऽप्यष्टका गणाः ॥ मुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्यं मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥ ६ ॥ विवस्वतः सुतो विप्र ! श्राद्धदेवो महाद्युतिः । मनुः स वर्त्तते धीमान् साम्प्रतं सप्तमेऽन्तरे ॥ आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ! । पुरन्दरस्तथैवात्र मैत्रेय ! त्रिदशेश्वरः ॥ वशिष्ठः कश्यपोऽथाग्निर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽत्र च ॥ इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभ उदिष्ट एव च ॥ करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्त्रास्तु धार्म्मिकाः ॥ ७ ॥ विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता । मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ अंशेन तस्य यज्ञोऽसौ जज्ञे स्वायम्भुवेऽन्तरे । आकूत्यां मानसो देव उत्पन्नः प्रथमेऽन्तरे ॥ ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे । तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ॥ औत्तमेरन्तरे चापि तुषितस्तु पुनः स वै । सत्यायामभवत् सत्यः सत्यैः सह सुरोत्तमैः ॥ तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि । हर्य्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ॥ रैवतेऽप्यन्तरे देवः सम्भूत्यां मानसोऽभवत् । सम्भूतो राजसैः सार्द्धं देवैर्देववरो हरिः ॥ चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह ॥ मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विजः । वामनः कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ त्रिभिः क्रमैरिमान् लोकान् जित्वा येन महा- त्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै । सप्तस्वेवाभवन् विप्र ! याभिः संरक्षिताः प्रजाः ॥ यस्माद्विष्टमिदं सर्व्वं तस्य शक्त्या महात्मनः । तस्मात् संप्रोच्यते विष्णुर्व्विशेर्धातोः प्रवेशनात् ॥ सर्व्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश्च । इन्द्रश्च यो यस्त्रिदशेशभूतो विष्णोरशेषास्तु विभूतयस्ताः ॥” इति विष्णुपुराणे ३ अंशे मन्वन्तराख्यानं नाम १ अध्यायः ॥ * ॥
श्रीमैत्रेय उवाच । प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ! ममाख्यातुं त्वमर्हसि ॥ श्रीपराशर उवाच । “छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः । पूर्ब्बजस्य सवर्णोऽस्य सावर्णिस्तेन कथ्यते ॥ तस्य मन्वन्तरं ह्येतत् सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग ! भविष्यं कथयामि ते ॥ सावर्णिस्तु मनुर्योऽसौ मैत्रेय ! भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तदा सुराः ॥ तेषां गणस्तु देवानामेकैको विंशकः स्मृतः । सप्तर्षीनपि वक्ष्यामि भपिष्यानथ सप्त च ॥ दीप्तिमान् गालवो रामः कृपो द्रौणिस्तथापरः । मत्पुत्त्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ विष्णुप्रसादादनघः पातालान्तरगोचरः । विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ विरजाश्चार्व्वरीवांश्च निर्मोहाद्यास्तथापरे । सावर्णस्य मनोः पुत्त्रा भविष्यन्ति नरेश्वराः ॥ ८ ॥ नवमो दक्षसावर्णिर्मैत्रेय ! भविता मनुः । पारा मरीचिगर्भाश्च सुधर्म्माणस्तथा त्रिधा ॥ भविष्यन्ति तदा देवा एकैको द्वादशो गणः । तेषामिन्द्रो महावीर्य्यो भविष्यत्यद्भुतो द्बिज ! ॥ सवनो द्युतिमान् हव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ धृतिकेतुर्दीप्तिकेतुः पञ्चहस्तो निरामयः । पृथुस्तवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥ ९ ॥ दशमो ब्रह्मसावर्णिर्भविष्यति मुने ! मनुः । सुधामानोऽनिरुद्धाश्च शतसंख्यास्तथा सुराः ॥ तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तदा तान् शृणुष्व च ॥ हविष्मान् सुकृतिः सत्यो ह्यपां मूर्त्तिस्तथापरः । नाभागो प्रतिमौजाश्च सत्यकेतुस्तथैव च ॥ सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणादयो दश । ब्रह्मसावर्णिपुत्त्राश्च रक्षिष्यन्ति वसुन्धराम् ॥ १० ॥ एकादशश्च भविता धर्म्मसावर्णिको मनुः । विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥ गणास्त्वेते तदा मुख्या देवानां हि भविष्यताम् । एकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै वृषः ॥ निश्चरश्चाग्नितेजाश्च वपुष्मान् वृष्टिवारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ सर्व्वत्रगः सर्व्वधर्म्मा देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥ ११ ॥ रुद्रपुत्त्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतधामा च तत्रेन्द्रो भविता शृणु मे सुरान् । हरिता लोहिता देवास्तथा सुमनसो द्विज ! । सुकर्म्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ॥ देववानुपदेवश्च देवश्रेष्ठादयस्तथा । भविष्यन्ति मनोस्तस्य महावीर्य्याः सुता नृपाः ॥ १२ ॥ त्रयोदशो रौच्यनामा भविष्यति मुने ! मनुः । सुत्रामणिः सुकर्म्माणः सुधर्म्माणस्तथापरः ॥ त्रयस्त्रिंशद्बिभेदास्ते देवानां ये तु वै गणाः । दिवस्पतिर्महावीर्य्यस्तेषामिन्द्रो भविष्यति ॥ निर्मोहस्तत्त्वदर्शी च निष्प्रकम्पो निरुत्सुकः । धृतिमानव्ययश्चान्यः सप्तमः सुतपा मुनिः ॥ सप्तर्षयस्त्विमे तस्य पुत्त्रानपि निबोध मे । चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥ १३ ॥ भौत्यश्चतुर्दशश्चात्र मैत्रेय ! भविता मनुः । शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् ॥ चाक्षुषश्च पवित्राश्च कनिष्ठा भ्राजिनस्तथा । वातावृद्धाश्च वै देवाः सप्तर्षीनपि मे शृणु ॥ अग्निबाहुः शुचिः शुक्रो मागधोऽग्नीध्र एव च । युक्तस्तथाजितश्चान्यो मनुपुत्त्रानतः शृणु ॥ उरुगम्भीररन्ध्राद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्दूल ! पालयिष्यन्ति मेदि- नीम् ॥ १४ ॥ चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्त्तयन्ति तानेत्य भुवि सप्तर्षयो दिवः ॥ कृते कृते स्मृतेर्विप्र ! प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरन्तु तत् ॥ भवन्ति ये मनोः पुत्त्रा यावन्मन्वन्तरं हि तैः । तदन्वयोद्भवैश्चैव तावद्भूः परिपाल्यते ॥ मनुः सप्तर्षयो देवा भूपालाश्च मनोः सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणः ॥ चतुर्द्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ! । सहस्रयुगपर्य्यन्तः कल्पो निःशेष उच्यते । तावत्प्रमाणा च निशा ततो भवति सत्तम ! ॥” इति विष्णुपुराणे ३ अंशे २ अध्यायः ॥ * ॥
मन्वन्तरश्रवणफलं यथा, —
“श्रुते मन्वन्तरे पूर्ब्बे धर्म्ममाप्नोति मानवः । खारोचिषस्य श्रवणात् सर्व्वान् कामानवा- प्नुयात् ॥ औत्तमे धनमाप्नोति ज्ञानञ्चाप्नोति तामसे । रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् ॥ आरोग्यञ्चाक्षुषे पुंसां श्रुते वैवस्वते बलम् । गुणवत् पुत्त्रपौत्त्रांश्च सूर्य्यसावर्णिके श्रुते ॥ माहात्म्यं ब्रह्मसावर्णेर्धर्म्मसावर्णिके शुभाम् । मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् ॥ जातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते । विशातयत्यरिबलं रौच्यं श्रुत्वा मनूत्तमम् ॥ देवप्रासादमाप्नोति भौत्ये मन्वन्तरे श्रुते । तथाग्निदीप्तिं पुत्त्रांश्च गुणयुक्तानवाप्नुते ॥ सर्व्वाण्यनुक्रमाद्यस्तु शृणोति मुनिसत्तम ! । मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् ॥ तत्र देवानृषीन् विप्रान्मनूंस्तत्तनयान् नृपान् । इन्द्रांश्च श्रुत्वा सर्व्वेभ्यः पापेभ्यो विप्रमुच्यते ॥ देवेन्द्रर्षिनृपाश्चान्ये ये तन्मन्वन्तराधिपाः । ते प्रीयन्ते तथा प्रीताः प्रयच्छन्ति शुभां मतिम् ॥ ततः शुभां मतिं प्राप्य कृत्वा कर्म्म तथा शुभम् । शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्द्दश ॥ सर्व्वे स्युरृतवः सौम्याः सर्व्वे सौम्यास्तथा ग्रहाः । भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् ॥” इति मार्कण्डेयपुराणे मन्वन्तरानुवर्णनं नामा- ध्यायः ॥