संस्कृत-शब्दकोशः

मम ममतायुक्त

ममता

वाचस्पत्यम्

ममता ||‍ स्त्री मम भावः तल् । १ दर्पे २ अहङ्कारे हेम० । ३ मत्स- म्बन्धे च । एवं ममत्वमप्यत्र । “तथापि ममतावर्त्ते” इति “ममत्वं मम राज्यस्य” इति च देवीमा० ।


शब्दकल्पद्रुमः

ममता || स्त्री (मम + भावे तल् । टाप् ।)
दर्पः । अभिमानः । इति हेमचन्द्रः । २ । २३१ ॥ ममत्वम् । यथा, —
“तथापि ममतावर्त्ते मोहगर्त्ते निपातिताः ॥” इति देवीमाहात्म्यम् ॥ (उतथ्यपत्नी । सा तु दीर्घतमोमाता । यथा, ऋग्वेदे । ६ । १० । २ । “स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥” “ममता नाम ब्रह्मवादिनी दीर्घतमसो माता ।” इति तद्भाष्ये सायनः ॥)



Correction: