वाचस्पत्यम्
मय || गतौ भ्वा० आ० सक० सेट् । मयते अमयिष्ट ।
वाचस्पत्यम्
मय || पुंस्त्री० मय—अच् । १ उष्ट्रे २ अश्वतरे स्त्रियां टाप् ३ दानवभेदे च मेदि० ।
शब्दकल्पद्रुमः
मय || ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, मयते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
मयः || पुं, (मयते द्रुतं गच्छतीति । मय् + पचाद्य- च् ।)
उष्ट्रः । इत्यमरः । २ । ९ । ७५ ॥ अश्वतरः । दानवविशेषः । स तु दैत्यानां शिल्पी । इति मेदिनी । ये, ४४ ॥ (अयं हि युधिष्ठिरस्य राज्ञः सभां विरचितवान् । यथा, शिशुपाल- वधे । १३ । ५० । “उपनीय बिन्दुसरसो मयेन या मणिदारुचारु किल वार्षपर्व्वणम् । विदधेऽवधूतसुरसद्मसम्पदं समुपासदत् सपदि संसदं स ताम् ॥”)
तस्य सप्तापत्यानि यथा, वह्निपुराणे । “मयस्य जाता हेमायां पुत्त्राः सप्त महाबलाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा । बालिका वज्रकन्या च कन्या मन्दोदरी तथा ॥” (सुखम् । त्रि, गन्ता । यथा, वाजसनेयसंहि- तायाम् । २२ । १९ । “हयोऽस्यत्योऽसि मयोऽस्यर्व्वासि ।” “मयोऽसि मयते गच्छति मयः मय गतौ पचाद्यच् । यद्वा मय इति सुखनाम सुखरूपोऽसि ।” इति तद्भाष्ये महीधरः ॥)