संस्कृत-शब्दकोशः

मरक्त मरत

मरण

वाचस्पत्यम्

मरण ||‍ न० म्रियतेऽनेन मृ—करणे ल्युट् । वत्सनाभाख्ये १ विषे राजनि० । भावे ल्युट् । देहात्मनोर्विच्छेदरूपे, प्राणवायो- रुत्क्रमणरूपे वा २ व्यापारभेदे ।


शब्दकल्पद्रुमः

मरणं || क्ली (म्रियतेऽनेनेति । मृ + करणे ल्युट् ।)
वत्सनाभः । इति राजनिर्घण्टः ॥ (भावे ल्युट् ।)
विजातीयात्ममनःसंयोगध्वंसः । इति न्याय- मतम् ॥ तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३ दृष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७ नाशः ८ मृत्युः ९ निधनम् १० । इत्यमरः । २ । ८ । ११६ ॥ भूमिलाभः ११ निपातः १२ आत्ययिकम् १३ मृतिः १४ । इति शब्दरत्ना- वली ॥ कीर्त्तिशेषः १५ महानिद्रा १६ महा- पथगमः १७ संस्थानम् १८ । इति जटाधरः ॥ मरणदुःखान्याह । “मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि । श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना नरः ॥ मुहुर्ग्लानिः परवशो मुहुर्ज्ञानबलान्वितः । हिरण्यधान्यतनयभार्य्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ मर्म्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः । शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥ विवर्त्तमानताराक्षिहस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ निरुद्धकण्ठो दोषौघौरुदानश्वासपीडितः । तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ क्लेशादुत्क्रान्तिमाप्नोति याम्यकिङ्करपीडितः । ततश्च यातनादेहं क्लेशेन प्रतिपद्यते । एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ॥” इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ * ॥
सुहृन्मरणश्रावणनिषेधो यथा, —
“अग्नौ न निक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा । सुहृन्मरणमार्त्तिं वा न स्वयं श्रावयेत् परान् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
अथ धार्म्मिकमरणलक्षणम् । सोमशर्म्मोवाच । “धर्म्यो हि कीदृशो मृत्युर्जन्म चैव वदस्व मे । उभयोर्लक्षणं कान्ते ! त्वमेवं हि वदस्व मे ॥ सुमनोवाच । सत्यं शौचं क्षमा शान्तिस्तीर्थं पुण्यादिकं तथा । धर्म्मञ्च पालितं येन तस्य मृत्युं वदाम्यहम् ॥ रोगो न जायते तस्य न च पीडा कलेवरे । न श्रमो वै नच ग्लानिर्न च स्वेदो भ्रमस्तथा ॥ दिव्यरूपधरा भूत्वा गन्धर्व्वा ब्राह्मणास्तथा । वेदपाठसमायुक्ता गतिज्ञानविशारदाः ॥ तस्य पार्श्वं समायान्ति स्तुतिं कुर्व्वन्ति चातु- लाम् । सुस्थो हि आसने युक्तो देवपूजारतः किल ॥ तीर्थञ्च लभते प्राज्ञः स्नानार्थं धर्म्मतत्परः । अग्न्यगारे च गोष्ठे च देवतायतनेषु च ॥ आरामे च तडागे च यत्राश्वत्थो वटस्तथा । ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षन्तु तथा पुनः ॥ अश्वस्थानं समाश्रित्य गजस्थानं ततो नरः । अशोकं चूतवृक्षञ्च समाश्रित्य यदा स्थितः ॥ सन्निधिं ब्राह्मणानाञ्च राजवेश्मगतोऽपि वा । रणभूमिं समाश्रित्य पुरा यत्र मृता भटाः ॥ मृत्युस्थानानि पुण्यानि केवलं धर्म्मकारणम् । गोग्रहन्तु समं प्राप्य तथा समरशङ्कटम् ॥ शद्धधर्म्मकरो नित्यं धर्म्मतो धर्म्मवत्सलः । एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥ मातरं पश्यते पुण्यं पितरञ्च नरोत्तमम् । भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥ वन्दिजनं तथा पुण्यं स्तूयमानं पुनः पुनः । पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥ गीतं गायन्ति गन्धर्व्वाः स्तुवन्ति स्तावकाः स्तवैः । मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥ पिता स्वजनवर्गश्च धर्म्मात्मानं महामतिम् । एवंभूताः समाख्याताः पुण्यस्थानानि ते विभो ! । प्रत्यक्षान् पश्यते भूतान् हास्यस्नेहसमाविलान् ॥ न च स्वप्नेन मोहेन क्लेशरक्तेन वै वत ॥ धर्म्मराजो महाप्राज्ञो दूरात्तन्तु समाह्वयेत् । एह्येहि त्वं महाभाग ! यत्र धर्म्मः स तिष्ठति ॥ तस्य मोहो न च भ्रान्तिर्न ग्लानिर्न च विक्रिया । जायते नात्र सन्देहः प्रसन्नात्मा प्रतिष्ठते ॥ ज्ञानविज्ञानसम्पन्नः स्मरन्नेवं जनार्द्दनम् । तैश्च रार्द्बं प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥ दशमद्वारमाश्रित्य आत्मा तस्य हि गच्छति । शिविका तस्य चायाति सुयानं सुमनोहरम् ॥ विमानैरेव यात्येष वायोर्वेगेन चोत्तमः ॥ छत्रेण ध्रियमाणेन चामरव्यजनैस्तथा । वीज्यमानः स धर्म्मात्मा पुण्यैरेव समन्ततः ॥ गीयमानस्तु धर्म्मात्मा स्तूयमानस्तु पण्डितैः । वन्दिभिश्चामरैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥ साधुभिः स्तूयमानस्तु सर्व्वसौख्यसमन्वितः । यथादानप्रभावेण फलमाप्नोति तत्र सः ॥ आरामवाटिकामध्ये स प्रयाति सुखेन वै । अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥ देवैस्तु स्तूयमानस्तु धर्म्मराजं प्रपश्यति । देवाश्च धर्म्मसंयुक्ता जग्मुः सांमुख्यमेव ते ॥ एह्येहि त्वं महाभाग ! भुङ्क्ष्व भोगान्मनो- रमान् । एवं संपश्यते धर्म्मं सौम्यरूपं महामतिः ॥ अस्य पुण्यस्य भावेन भुङ्क्ते स्वर्गमनुत्तमम् । भोगक्षयात् स धर्म्मात्मा पुनर्जन्म प्रयाति च ॥ निजघर्म्मप्रसादात् स कुलं पुण्यं प्रयाति च । ब्राह्मणस्य सुपुण्यस्य क्षत्त्रियस्य तथैव च ॥ धनाढ्यस्य सुपुण्यस्य वैश्यस्य च महामते ! । धर्म्मेण मोदते भद्रं पुनः पुण्यं करोति सः ॥” इति श्रीपद्मपुराणे भूमिखण्डे सुमनोपाख्याने १५ अध्यायः ॥ * ॥
अथ पापिनां मरणलक्षणम् । सोमशर्म्मोवाच । “पापिनां मरणं भद्रे ! कीदृशैर्लक्षणैर्युतम् । तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भाविनि ! ॥ सुमनोवाच । श्रूयतामभिधास्यामि तस्मात् सिद्धात् श्रुतं मया । पापिनां मरणं कान्त ! यादृशं लिङ्गमेव च ॥ महापातकिनाञ्चैव स्थानमेषां वदाम्यहम् । लिप्ताममेध्यसंक्लेदैर्भूमिं पापसमन्विताम् ॥ स तां प्राप्य सुदुष्टात्मा प्राणान् दुःखेन मुञ्चति । चाण्डालभूमिं संप्राप्य मरणं याति दुःखितः ॥ गर्द्दभाचरितां भूमिं वेश्यागारं समाश्रितः ॥ मद्यपानगृहं गत्वा नैधन्यमुपगच्छति । अस्थिचर्म्मनखैः पूर्णामाश्रितां पापकिल्विषैः ॥ तामवाप्य स दुष्टात्मा मृत्युं प्राप्नोति निश्चितम् । अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति ॥ अथ चेष्टां प्रवक्ष्यामि दूतानां प्रिय ! निश्चि- ताम् ॥ भैरवान् दारुणान् घोरानतिकृष्णान्महोदरान् । पिङ्गाक्षान् पीतनीलांश्च अतिश्वेतान्महो- दरान् ॥ अत्युच्चांश्च करालांश्च शुष्कमांसत्वचोपमान् । रौद्रदंष्ट्राकरालांश्च सिंहास्यान् सर्पहस्तकान् ॥ स तान् दृष्ट्वा प्रकम्पेत स्विद्येत च मुहुर्मुहुः । शिवासंवादवद्घोरान्महारावान्महामते ! ॥ मुञ्चन्ति दूतकाः सर्व्वे कर्णमूले तु तस्य हि । गले पाशप्रबद्धास्ते कण्ठे बद्धास्तथोदरे ॥ समाकृष्य नयन्त्येते हाहेति रुदतो मुहुः । म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् ॥ परद्रव्यापहरणं परभार्य्याविडम्बनम् । ऋणं परस्य सर्व्वस्वं गृहीतं यैस्तु पापिभिः ॥ पुनर्नैव प्रदत्तं हि लोभास्वादविमोहितैः । अन्यदेव महापापं कुप्रतिग्रहमेव च ॥ कण्ठमायान्ति ते सर्व्वे म्रियमाणस्य तस्य च । यानि कानि च पापानि पूर्ब्बमेव कृतानि च ॥ आयान्ति कण्ठमूलं हि महापापस्य नान्यथा । दुःखमुत्पादयन्त्येते कफबन्धेन दारुणम् ॥ पीडाभिर्दारुणाभिश्च कण्ठो घुरघुरायते । रोदते कम्पतेऽत्यर्थं मातरं पितरं पुनः । स्मरति भ्रातरं तत्र भार्य्यां पुत्त्रं पुनः पुनः ॥ पुनर्विस्मरणं याति महापापेन मोहितः । तस्य प्राणा न गच्छन्ति बहुपीडासमाकुलाः ॥ पतते कम्पते चैव मूर्च्छते च पुनः पुनः । एवं पीडासमायुक्तो दुःखं भुङ्क्तेऽतिमोहितः ॥ तस्य प्राणा सुदुःखेन महाकष्टैः प्रचालितः । अपानं मार्गमाश्रित्य शृणु कान्त ! प्रयान्ति ते ॥ एवंप्राया दुरात्मानो लोभमोहसमन्विताः । नीयन्ते च महाभूतैस्तेषां दुःखं वदाम्यहम् ॥” इति पाद्मे भूमिखण्डे सुमनोपाख्याने पापिमरणं नाम १६ अध्यायः ॥ * ॥
पापिनां यमालयगमननानायोनिप्राप्तिविवरणं यथा, — सुमनोवाच । “अङ्गारसञ्चये मार्गे कृष्यमाणो हि नीयते । दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥ यत्रातपो महातीव्रो द्वादशादित्यतापितः । नीयते तेन मार्गेण सन्तप्तः सूर्य्यरश्मिभिः ॥ पर्व्वतेष्विव दुर्गेषु छायाहीनेषु दुर्म्मतिः । नीयते तेन मार्गेण क्षुधातृष्णादिपीडितः ॥ स दूतैर्हन्यमानस्तु पदा दण्डैः परश्वधैः । कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥ ततः शीतमये मार्गे वायुना सेव्यते पुनः । तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥ आकृष्यमाणो दूतैस्तु नानादुःखेन नीयते । एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥ सर्व्वपापसमायुक्तो नीयते यमकिङ्करैः । यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् । तमुग्रं दारुणं भीमं यमदूतैः समावृतम् । सर्व्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥ आरूढमहिषं देवं धर्म्मराजं द्बिजोत्तम ! । दंष्ट्राकरालमत्युग्रं लम्बास्यं कालसन्निभम् ॥ पीतवासं महाहस्तं रक्तगन्धानुलेपनम् । रक्तमालाकृताभूषं गदाहस्तं भयङ्करम् ॥ एवंव्रिधं महाकायं यमं पश्यति दुर्म्मतिः । तं दृष्ट्वा समनुप्राप्तं सर्व्वधर्म्मबहिष्कृतम् ॥ यमः पश्यति तं दुष्टं पापिष्ठं धर्म्मकण्टकम् । शातयेत्तु महादुःखैः पीडाभिर्दारुमुद्गरैः ॥ यावद्युगसहस्रान्तं तावत् कालं प्रपच्यते । नानानरकदेशेषु पच्यते च पुनः पुनः ॥ नरकञ्च प्रयात्येवं कृमिकीटेषु पापकृत् । अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥ मरणञ्चैव पापात्मा एवं याति सुनिश्चितम् । एवं पापस्य सम्भोगं भुङ्क्ते चैव सुदुर्म्मतिः ॥ पुनर्जन्म प्रवक्ष्यामि यासु योनिषु जातिषु । श्वयोनिं समनुप्राप्य भुञ्जते पातकं पुनः ॥ व्याघ्रो भवति दुष्टात्मा रासभं याति वै पुनः । मार्ज्जारशौकरीं योनिं सर्पयोनिन्तथैव च ॥ नानाभेदासु सर्व्वासु तिर्य्यक्सु च पुनः पुनः । पापपक्षिषु संयाति अन्यासु गर्हितासु च । चाण्डालभिल्लजातिञ्च पुलिन्दीं याति पाप- कृत् ॥ एतत्ते सर्व्वमाख्यातं पापिनां जन्म चव हि । पापपुण्यसमाचारस्त्वदग्रे कथितो मया ॥” इति पाद्मे भूमिखण्डे सुमनोपाख्याने पाप- पुण्यविवेको नाम १७ अध्यायः ॥ * ॥
शालग्रामशिलास्पर्शे मरणफलम् । यथा, — राजान ऊचुः । “युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ । वयं नृपा इमे लोका ऋषयो ब्राह्मणाश्च ये ॥ प्रेक्ष्य भक्तिवितानं वां हरौ विस्मितमानसाः । पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः ॥ कस्य वा शिक्षिता राजन् ! किं वा नैसर्गिकी तव । श्रोतुमिच्छामहे राजन् ! त्रिजगज्जनपावनीम् । कथां भागवतीं त्वत्त्वः संसाराश्रमनाशिनीम् ॥ शशिध्वज उवाच । स्त्रीपुंसोरावयोर्यूयं शृणुतामोघविक्रमाः । वृत्तं यज्जन्मकर्म्मादिस्मृतिं तद्भक्तिलक्षणाम् ॥ पुरा युगसहस्रान्ते गृध्रोऽहं पूतिमांसभुक् । गृध्रीयं मे प्रियारण्ये कृतनीडौ वनस्पतौ ॥ चकार कामं सर्व्वत्र वनोपवनसंकुले । मृतानां पूतिपललैः प्राणिनां वृत्तिकल्पकौ ॥ एकदा लुब्धकः क्रूरो लुलोभ पिशिताशिनौ । आवां वीक्ष्य गृहे पुष्टं गृध्रं तत्राप्ययोजयत् ॥ तं वीक्ष्य जातविश्रान्तौ क्षुधया परिपीडितौ । स्त्रीपुंसौ पतितौ तत्र मांसशोणितचेतसौ ॥ बद्धावावां वीक्ष्य शिचा हर्षादागत्य लुब्धकः । जग्राह कण्ठे तरसा चञ्च्वग्राघातपीडितः ॥ आवां गृहीत्वा गण्डक्याः शिलायां सलिला- न्तिके । मस्तिष्कं चूणयामास लुब्धकः पिशिताशनः ॥ चक्राङ्कितशिलासङ्गान्मरणादपि तत्क्षणात् । ज्योतिर्म्मयविमानेन सद्यो भूत्वा चतुर्भुजौ ॥ प्राप्तौ वैकुण्ठनिलयं सर्व्वलोकनमस्कृतम् । ततः स्थित्वा युगशतं ब्रह्मणो लोकमागतौ ॥ ब्रह्मलोके पञ्चशतं युगानामुपभुज्य वै । देवलोके कालवशाद्गतं युगचतुःशतम् ॥ ततो भुवि नृपास्तावत् बद्धसूनुरहं स्मरन् । हरेरनुग्रहं लोके शालग्रामशिलाश्रयम् ॥ जातिस्मरत्वं गण्डक्याः किं तस्याः कथया- म्यहम् । यज्जलस्पर्शमात्रेण माहात्म्यं महदद्भुतम् ॥ चक्राङ्कितशिलास्पर्शमरणस्येदृशं फलम् । न जाने वासुदेवस्य सेवया किं भविष्यति ॥” इति कल्किपुराणे २५ अध्यायः ॥ * ॥
मरणजनकवस्तूनि यथा, —
“अग्निरापः स्त्रियो मूर्खः सर्पा राजकुलानि च । नित्यं परोपसेव्यानि सद्यःप्राणहराणि षट् ॥” इति गारुडे ११४ अध्यायः ॥ (“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे । शेफसः स्तध्वता मोक्षः शुक्रस्य तु विशेषतः ॥” इति माधवकरकृतरुग्विनिश्चये ज्वराधिकारे ॥ “अपानः कर्षति प्राणं प्राणोऽपानन्तु कर्षति । शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम् ॥” इति वैद्यकम् ॥)



Correction: