वाचस्पत्यम्
मरुत्कर || पु० मरुतमपानवायुं करोति कृ—अच् । राजमाषे शब्दच० ।
शब्दकल्पद्रुमः
मरुत्करः || पुं, (करोतीति । कृ + अच् । मरुतो- ऽपानवायोः करः ।)
राजमाषः । इति शब्द- चन्द्रिका ॥ (मरुत्कारिणि, त्रि । यथा, —
“कषायमधुराः शीताः कटुपाका मरुत्कराः । बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ॥” इति सुश्रुते सूत्रस्थाने ४६ आध्यायः ॥)