शब्दकल्पद्रुमः
मरुत्पुत्त्रः || पुं, (मरुतो वायोः पुत्त्रः ।)
भीमसेनः । इति हेमचन्द्रः । ७०७ ॥ (अस्य मरुत्पुत्त्रत्वे विवरणम् । यथा । पुरा किल पाण्डुर्नाम महीपतिर्मृगयार्थं वनं गत्वा ब्राह्मणमेकं मृग- रूपधारिणं हरिण्यां रममाणं काममोहितं जघान । ततस्तेनाभिशप्तो निजपत्न्यो रन्तुमसौ न शक्तः । अथ गच्छति काले कुन्ती पुत्त्र- कामस्य स्वभर्त्तुः पाण्डुराजस्यानुज्ञया इन्द्रादीन् देवानाहूय तैरन्वरंसीत् । तेषां मरुतो भीम- सेनो जात इति पौराणिकी वार्त्तात्रानुसन्धेया । अस्य विशेषस्तु महाभारते । १ । ११८ — १२३ । अध्यायेषु द्रष्टव्यः ॥)
हनूमांश्च ॥