संस्कृत-शब्दकोशः

मरुत्वत् मरुदान्दोल

मरुत्सख

वाचस्पत्यम्

मरुत्सख ||‍ पु० मरुतो वायोः सखा—टच्समा० । १ इन्द्रे धरणिः । २ वह्नौ ३ चित्रकवृक्षे च ।


शब्दकल्पद्रुमः

मरुत्सखः || पुं, (मरुतां देवानां सखा । “राजाहः सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
इन्द्रः । इति धरणिः ॥ (मरुतो वायोः सखा ।)
अग्निः । वायुसख इत्यमरदर्शनात् ॥ (वायुसखे, त्रि । यथा, रघौ । ११ । ३ । “तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥”)



Correction: