वाचस्पत्यम्
मरुन्माला || स्त्री मरुतो भालेव । (पिडिङ्शाक) पृक्कायाम् अमरः ।
शब्दकल्पद्रुमः
मरुन्माला || स्त्री (मरुद्भिर्मल्यते धार्य्यते इति । मल धारणे + कर्म्मणि घञ् । टाप् ।)
पृक्का । इत्यमरः । २ । ४ । १३३ ॥ पिडिंशाक इति भाषा ॥ (पर्य्यायोऽस्य यथा, —
“स्पृक्कासृक् ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता बधूः कोटिवर्षा लङ्कापिकेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)