वाचस्पत्यम्
मरुभूरुह || पु० मरुभुवि निर्जलभूमौ रोहति रुह—क । करवीरे भावप्र० ।
शब्दकल्पद्रुमः
मरुभूरुहः || पुं, (मरुभुवि रोहति जायते इति । रुह् + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
करीरवृक्षः । इति भावप्रकाशः ॥ मरुभूमिजाते, त्रि ॥ (यथा, आर्य्यासप्त- शत्याम् । ६७६ । “सत्पुंसो मरुभूरुह इव जीवनमात्रमाशा- स्यम् ॥”)