शब्दकल्पद्रुमः
मरुसम्भवं || क्ली (मरुः सम्भव उत्पत्तिस्थानमस्य ।)
चाणक्यमूलकम् । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, —
“मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् । शालमर्कटकं विप्रं शालयं मरुसम्भवम् ॥ चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका । नेपालमूलकञ्चान्यत् तद्भवेद्गजदन्तवत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)