शब्दकल्पद्रुमः
मरोलिः || पुं, (मरौ निर्ज्जलदेशे लीयते म्रियते इति । मरु + ली + इन् । पृषोदरादित्वात् साधुः ।) मकरः । यथा, — “जलरूपस्तु मकरो मरोलिरसिदंष्ट्रकः ॥” इति त्रिकाण्डशेषः ॥