संस्कृत-शब्दकोशः

मर्कक मर्कटक

मर्कट

वाचस्पत्यम्

मर्कट ||‍ पुंस्त्री० मर्क—अटन् । १ वानरे अमरः । स्त्रियां ङीष् २ उर्णनाभे (माकडसा) ३ स्थावरविषभेदे हेमच० (हाड- गिला) ४ पक्षिभेदे च पुंस्त्री० त्रिका० स्त्रियां ङीष् । स्वार्थे क । मर्कटक तत्रैव संज्ञायां कन् । मत्स्यभेदे दैत्यभेदे च शब्दर० ।


शब्दकल्पद्रुमः

मर्कटः || पुं, (मर्कति गच्छतीति । मर्क + “शका- दिभ्योऽटन् ।” उणा ० ४ । ८१ । इति अटन् ।)
वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “यमाय कृष्णो मनुष्यराजाय मर्कटः ॥”)
ऊर्णनाभः । (यथा आर्य्यासप्तशत्याम् । ३२२ । “अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥” “मर्कटो लूता ॥” इति तट्टीका ॥)
स्थावरविष- भेदः । इति हेमचन्द्रः ॥ गलेगण्डपक्षी । इति त्रिकाण्डशेषः ॥ हाडगिल् इति भाषा ॥



Correction: