संस्कृत-शब्दकोशः

मर्कटास्य मर्कटीजाल

मर्कटी

वाचस्पत्यम्

मर्कटी ||‍ स्त्री मर्कटोस्त्यस्याः स्निग्धत्वेन अच् गौ० ङीष् । १ अपामार्गे २ अजमोदायाम् राजनि० ३ करञ्जभेदे (माकडकरमचा) अमरः । ४ मर्कटीजाले पिङ्गलः ।


शब्दकल्पद्रुमः

मर्कटी || स्त्री (मर्कति वायुवेगेन इतस्ततो गच्छतीति । मर्क + अटन् । स्त्रियां ङीप् ।)
कपिकच्छुः । (यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “कपिकच्छुरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी । अजरा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी ॥ जाङ्गली शूकशिम्बी च सैव प्रोक्ता मह- र्षिभिः ॥”)
अपामार्गः । (यथा, —
“अपामार्गस्तु शिखरी ह्यधःशल्यो मयूरकः । मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अजमोदा । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते उत्तरतन्त्रे । ३३ । ५ । “कुच्चटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत् । मांसमामं तथा पक्वं शोणितञ्च चतुष्पथे ॥”)
करञ्जभेदः । इत्यमरः । २ । ४ । ८७ ॥ माकडा करञ्जा इति भाषा ॥ (यथास्याः पर्य्यायो भावप्रकाशस्य पूर्ब्बखण्डे १ भागे । “उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्था हस्तिवारुणी । मर्कटी वायसी चापि करञ्जी करभञ्जिका ॥” मर्कट + ङीष् ।)
वानरी च ॥



Correction: