संस्कृत-शब्दकोशः

मर्मन् मर्मरी

मर्मर

वाचस्पत्यम्

मर्म्मर ||‍ पु० मृ—अरन् मुट् च । १ वस्त्रपर्णानां शब्दे (मडमड) इत्यव्यक्तशब्दे अमरः । २ पीतदारुणि ३ हरिद्रायाञ्च स्त्री मेदि० गौरा० ङीष् ।


शब्दकल्पद्रुमः

मर्म्मरः || पुं, (मर्म्म तत्त्वं मर्म्मेत्यव्यक्तशब्दं वा रातीति । रा + कः ।)
वस्त्रस्य पत्रस्य च ध्वनिः । इत्यमरः । १ । ७ । २३ ॥ मड्मड् शब्द इति भाषा ॥ (यथा, रघुवंशे । ४ । ५६ । “अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । मर्म्मरः पवनोद्धूतराजतालीवनध्वनिः ॥”)



Correction: