शब्दकल्पद्रुमः
मर्म्मवित् || [द्] पुं, (मर्म्म वेत्तीति । विद् + क्विप् ।)
मर्म्मज्ञः । तत्पर्य्यायः । कार्पटिकः २ । इति त्रिकाण्डशेषः ॥ मर्म्मिकः ३ मर्म्मवेदी ४ । इति जटाधरः ॥ (यथा, कथासरित्सागरे । ६२ । ९० । “वक्रनासस्ततोऽवादीद्रक्ष्योऽयं परमर्म्मवित् ॥”)