संस्कृत-शब्दकोशः

मर्म्मस्पृश् मर्या

मर्म्माविध्

शब्दकल्पद्रुमः

मर्म्मावित् || [ध्] त्रि, (मर्म्म विध्यतीति । मर्म्म + व्यध् + क्विप् । “ग्रहिज्येति ।” ६ । १ । १६ । इति सम्पसारणम् । “नहि- वृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।” ६ । ३ । ११६ । इति दीर्घत्वम् ।)
सन्धिस्थानवेधकर्त्ता । मर्म्मज्ञः । यथा, भट्टिकाव्ये । ५ । ५२ ।


शब्दकल्पद्रुमः

मर्म्माविद् || [ध्] त्रि, (मर्म्म विध्यतीति । मर्म्म + व्यध् + क्विप् । “ग्रहिज्येति ।” ६ । १ । १६ । इति सम्पसारणम् । “नहि- वृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।” ६ । ३ । ११६ । इति दीर्घत्वम् ।)
सन्धिस्थानवेधकर्त्ता । मर्म्मज्ञः । यथा, भट्टिकाव्ये । ५ । ५२ । “चिरं क्लिशित्वा मर्म्माविद्रामो विलुभितप्लवम् । शब्दायमानमव्यात्सीद्भयदं क्षणदाचरम् ॥” “मर्म्माणि विध्यतीति क्विप् जिः वीरुहो धङ्- क्वाविति दीर्घनिर्द्देशात् क्वचित् क्विवन्ते पूर्ब्ब- पददीर्घत्वं स्यादिति सूचितं आङ्पूर्ब्बस्य रूपं वा मर्म्मावित् मर्म्मज्ञो वा वेत्ते रूपम् ।” इति तट्टीकायां भरतः ॥



Correction: