संस्कृत-शब्दकोशः

मर्यादा मर्य्यादक

मर्यादागिरि

शब्दकल्पद्रुमः

मर्य्यादागिरिः || पुं, (मर्य्यादा सीमा तज्ज्ञापको गिरिः ।)
कुलाचलः । वर्षसीमापर्व्वतः । यथा । “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा- गिरयः प्रागायताः । उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्ब्बस्मात् पूर्ब्ब- स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम- कूटो हिमालय इति प्रागायता यथा नीला- दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष- भारतानां यथासंख्यम् । तथैवेलावृतमपरेण पूर्ब्बेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते ।” इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥



Correction: