संस्कृत-शब्दकोशः

मल मलघ्नी

मलघ्न

वाचस्पत्यम्

मलघ्न ||‍ पु० मलं विष्ठां हन्ति रेचयति हन—क । १ शाल्मलीकन्दे २ नागदमन्यां स्त्री ङीप् राजनि० । ३ मलनाशके त्रि० । क्विप् । मलहन् तत्रार्थे त्रि० ।


शब्दकल्पद्रुमः

मलघ्नः || पुं, (मलं हन्तीति । हन् + टक् ।)
शाल्मली- कन्दः । इति राजनिर्घण्टः ॥ मलनाशके, त्रि ॥



Correction: