शब्दकल्पद्रुमः
मलनं || क्ली (मल्यते मर्द्द्यते इति । मल् + ल्युट् ।) मर्द्दनम् । इति मेदिनी । ने, १०४ ॥
मलनः || पुं, (मलते धारयति वृष्टितापौ । मल धृतौ + ल्युः ।) पटवासः । इति मेदिनी । ने, १०४ । ताँवु इति भाषा ॥