वाचस्पत्यम्
मलमास || पु० मलो दुष्टो मासः । “अमावस्याद्वयं यत्र रवि- संक्रान्तिवर्जितम् । मलमासः स विज्ञेयः” इत्युक्ते रवि- संक्रान्तिशून्ये शुक्लप्रतिपदादिदर्शान्तरूपे चान्द्रे मासे । अधिमासशब्दे १३१ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
मलमासः || पुं, (मलो मलिनश्चासौ मासश्चेति कर्म्मधारयः ।)
अधिकमासः । तत्पर्य्यायः । मलिम्लुचः २ अधिमासः ३ असंक्रान्तमासः ४ नपुंसकः ५ । तस्य लक्षणं यथा । रविसंक्रान्त्य- भावविशिष्टचान्द्रमासत्वं मलमासत्वम् । इति श्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः ॥ अपि च । ज्योतिषे । “अमावस्याद्वयं यत्र रविसंक्रान्तिवर्ज्जितम् । मलमासः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥ अमावस्याद्वयम् अमावस्याद्वयान्त्यक्षणद्वयम् । रविसंक्रान्तिभ्यां रविक्रियोत्पत्तिरूपोत्तर- संयोगरूपाभ्यां यथाक्रमं वर्ज्जितं तेन दर्श- द्वयान्त्यक्षणद्वयपूर्ब्बापरयोरेव रवेः क्रियोत्प- त्त्युत्तरसंयोगाभ्यां यथाक्रमं योगेनाधिमासः । संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे पूर्ब्ब- संयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वय- वृत्तित्वमिति मीमांसकसिद्धान्तात् । गृह्यपरि- शिष्टज्योतिःपराशरौ । रविणा लङ्घितो मासश्चान्द्रः ख्यातो मलि- म्लुचः । तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत् ॥ पराशरः । पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सितासिते । तदा तन्मासविहितमुत्तरे मासि कारयेत् ॥ अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा तन्मासतत्पूर्ब्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य रवेस्तन्मासानन्तरमेव राश्यन्तरसंयोगः नत्वेक- राशिस्थितस्य मासव्यापनमात्रं तथात्वे चतु- र्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणे- ऽपरराशौ तत्परराशौ च द्वितीयायां प्रतिपदि वा रवेः संयोगेऽपरस्यापि मलमासता स्यात् अतएव ज्योतिषे । अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम् । मलमासं विजानीयाद्गर्हितं सर्व्वकर्म्मसु ॥ तस्यार्को दर्शकश्चैकराशौ दर्शद्वयातिगः ॥ अत्रैकराशिस्थार्कस्य दर्शद्बयातिगत्वमुक्तम् ॥ एतच्च पूर्ब्बोपदर्शितयोर्मासयोः पूर्ब्बस्यैव सम्भ- वति न परस्य ॥ * ॥
मलमासकारणन्तु ज्योतिषे । दिवसस्य हरत्यर्कः षष्टिभागमृतौ ततः । करोत्येकमहश्छेदं तथैवैकञ्च चन्द्रमाः ॥ एवमर्द्धतृतीयानामब्दानामधिमासकम् । ग्रीष्मे जनयतः पूर्ब्बं पञ्चाब्दान्ते तु पश्चिमम् ॥ तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं रवि- र्हरति छेदयति उत्तरे छेदमित्यभिधानात् । ततश्च ऋतौ मासद्वये षष्टिनाडीच्छेदादह्न- स्तिथेश्छेदमाकर्षणं करोति । एवं चन्द्रोऽपि । एवमुक्तक्रमेण वर्षे द्वादशतिथ्यात्मककाला कर्षा- दर्द्धतृतीयानामब्दानामन्ते अर्द्धं तृतीयं येषां ते तथा ग्रीष्मे माधवादिषट्के पूर्व्वं माधवादि- त्रिकपतितं पञ्चाब्दान्ते तु पश्चिमं श्रावणादि- त्रिकपतितं मलमासं चन्द्रार्कौ जनयतः । ग्रीष्मे माधवादिषट्के इति यदुक्तं तत् व्यक्तमाह मिहिरः । माधवादिषु षट्केषु मासि दर्शद्बयं यदा । द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः ॥ द्बिराषाढो द्बिराषाढादिः । श्रावणे सौर- श्रावणे । तथा च ज्योतिषे । मिथुनस्थो यदा भानुरमावस्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयः विष्णुः स्वपिति कर्क्कटे ॥ अमावस्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुञ्ज्यात् न तन्मध्ये राश्यन्तरसंयोग इत्यर्थः ॥ * ॥
ननु कर्क्कटादित्रिके अधिमासपाते तत्पूर्ब्बं मिथुन एव हरिशयनं तत् कथं माधवादिषट्कमात्रे कर्क्कटे तत् । तत्राह राजमार्त्तण्डः । कन्यासिंहकुलीरेषु यदा दर्शद्वयं भवेत् । आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत् ॥ माधवादित्रिकश्रावणादित्रिकाधिमासविवेचन- मप्येतदर्थम् । इदन्तु सार्द्धवर्षद्बयाधिमासपात- मौचित्यक्रमादुक्तं क्वचित्तिथीनां ह्रासबाहुल्येन दण्डषष्ट्यधिकन्यूनदर्शनादुक्तकालन्यूनाधिकका- लेऽपि मलमासो भवतीति समयप्रकाशकृत् । वस्तुतस्तु वैपरीत्यं यतो न्यूनदण्डतिथेः प्रायि- कत्वे तत्र तिथिक्षयस्य झटित्युपलभ्यमानत्वात् स्वल्पकालेन तिथ्यन्तरसम्बन्धात् शीघ्रं रवि- लङ्घनप्रतीतेः शीघ्रमेव मलमासो भवतीति अधिकदण्डतिथेः प्रायिकत्वे तत्र तिथिक्षयस्य झटित्यनुपलभ्यमानत्वेनाधिकेनैव कालेन तिथ्य- न्तरसम्बन्धात् विलम्बेनैव रविलङ्घनप्रतीतेश्चिरे- णैव मलमासो भवतीति । तथा च विष्णु- धर्म्मोत्तरम् । सौरसंवत्सरस्यान्ते मानेन शशिजेन तु । एकादशातिरिच्यन्ते दिनानि भृगुनन्दन ! ॥ समाद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते । स चाधिमासकः प्रोक्तः काम्यकर्म्मसु गर्हितः ॥ इदन्तु नियतमेकस्मादधिमासात्तृतीयाब्दे अधि- मासान्तरमिति । यद्यपि । यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः । तयैव सर्व्वसंक्रान्तिर्यावन्मेषं न गच्छति ॥ इति राजमार्त्तण्डवचनात्तुलादिषण्मासे तिथि- वृद्ध्यभावाद्बर्षे द्बादशतिथिवृद्धिरनुपपन्ना- तथापि । मध्ये विषुवतोर्भानुर्यान्यहानि तु वर्द्धयेत् । तैः सम्भूयाधिको मासः पतत्येव त्रयोदशः ॥ इति गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासं- क्रान्त्योर्मध्ये मेषादिषण्मास एव तिथिवृद्धि- रुक्ता । अहर्गणने मेषादिषण्मासे मन्दभुक्त्या सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्या दिनद्वयह्रास इति । तथा च ज्योतिःशास्त्रम् । मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् । तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत् पृथक् ॥ चन्द्र एकः । अङ्कस्य वामा गतिरित्यङ्कविदां समयात् व्युत्क्रमेण अङ्का बोध्याः । तेन दिन- वृद्धिक्रमसञ्चयाभ्यां मेषादिषट्क एव एका- दशादितिथिवृद्धिः । एवञ्च । गतेऽब्दद्वितये सार्द्धे पञ्चपक्षे दिनद्वये । दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥ इति राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्ट- मासाधिकवर्षद्वये अधिमासः । स सौरे मासि सप्तदशदिनोत्तरं चान्द्रमासलङ्घनासम्भवात् सावनमानेन ज्ञेयः । तथा च विष्णुधर्म्मोत्तर- प्रथमकाण्डम् । सौरेणाब्दस्तु मानेन यदा भवति भार्गव ! । सावनेन च मानेन दिनषट्कं प्रपूर्य्यते ॥ सौरसंरत्सरे दिनषट्काधिकः सावनसंवत्सरो भवतीति । सौरमासाष्टकाधिकवर्षद्वये सप्तदश दिनानि वर्द्धन्ते सावनक्रमेणेति पूर्ब्बोक्तविष्णु- धर्म्मोत्तरोक्तसमानविषयतास्येति ॥” “ज्योतिषे । दर्शानां फाल्गुनादीनां प्रायो माघस्य च क्वचित् । नपुंसकत्वं भवति न पौषस्य कदाचन ॥ नपुंसकत्वं मलमासत्वम् । तथा चोक्तम् । असंक्रान्तो हि यो मासः कदाचित्तिथि- वृद्धितः । कालान्तरात् समायाति स नपुंसक इष्यते ॥ शाण्डिल्योऽपि । प्रायशो न शुभः सौम्यो ज्यैष्ठश्चाषाढकस्तथा । मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ॥ सौम्यो मार्गशीर्षः । अधिकोऽधिमासः ॥” * ॥
“तदयं संक्षेपः । शुक्लप्रतिपदादिरमावास्यान्तो रविलङ्घितो मासो मलमासः । स च माधवादौ औत्सर्गिकः कदाचित् कार्त्तिकादावपि । अयञ्चा- निष्टकृत् माधवादि कार्त्तिकादिषट्कयोरपि तल्लक्षणयोगे माधवादावेव तुलादिषट्क एवो- भयमासे तल्लक्षणयोगे पूर्व्व एव । आश्विन- वैशाखयोस्तल्लक्षणयोगे पर एव मलमासः तद्भिन्नस्तु भानुलङ्घितः । मलमासे आषाढा- देर्द्वित्वम् । भानुलङ्घिते तु नैतदिति विस्तरः ॥ * ॥
मलमासे निषिद्धानि यथा, काठकगृह्यम् । चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् । राजाभिषेकं काम्यञ्च न कुर्य्यादधिमासके ॥ चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् । राजाभिषेकं काम्यञ्च न कुर्य्याद्भानु- लङ्घिते ॥ महालयं कन्यार्कश्राद्धम् । भीमपराक्रमेऽपि । अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते मासि । चक्रिणि सुप्ते कुर्य्यान्नो माङ्गल्यं विवाहञ्च ॥ दिनपाते दिनक्षये । अधिमासे विवाहं यात्रां चूडां तथोपनय- नादि । कुर्य्यान्न सावकाशं माङ्गल्यं न तु विशेषे- ज्याम् ॥ इति ॥ अत्र विवाहादिकीर्त्तनं निरवकाशत्वेऽपि निषे- धार्थम् । अन्यथा सावकाशमित्यनेनैव सिद्धेः । सावकाशञ्च सम्भवत्कालान्तरं कर्म्म अतो निरवकाशस्यानन्यगतिकस्य प्रतिप्रसवोऽर्थात् सूचितः । तथा च मलमासाधिकारे काठक- गृह्यम् । कालेऽनन्यगतिं नित्यां कुर्य्यान्नैमित्तिकीं क्रियाम् ॥” इति मलमासतत्त्वम् ॥ * ॥
अपि च । “अग्न्याधानं प्रतिष्ठाञ्च यज्ञदानव्रतानि च । देवव्रतवृषोत्सर्गचूडाकरणमेखलाः । माङ्गल्यमभिषेकञ्च मलमासे विवर्ज्जयेत् ॥” इति गारुडे १२८ अध्यायः ॥ * ॥
अथ मलमासकर्त्तव्यव्रतादि । “चातुर्मास्यव्रत- माषाढाद्युल्लेखेन विहितं तदप्यारब्धं श्राव- णादिमलमासेऽपि कर्त्तव्यं आषाढादिप्रतिदिन- कर्त्तव्यत्वेन निरवकाशात् । ‘षष्ठ्या तु दिवसैर्मासः कथितो वादरायणैः ॥’ इति ज्योतिःशास्त्रे पितामहेन एकमासत्वाभि- धानाच्च । यच्च । ‘संवत्सरन्तु यः पूर्णमेकभक्तेन तिष्ठति ।’ इत्यादौ माघाद्यनुल्लिखितसंवत्सरव्रतमारब्धं तन्मलमासेऽपि कर्त्तव्यम् । ‘क्वचित्त्रयोदशमासाः संवत्सर इति श्रुतेः ॥’ यच्च प्रतिमासविहितं न माघाद्युल्लेखेन तन्मल- मासेऽपि कर्त्तव्यम् । तथा च रम्भातृतीयाव्रते शिवरहस्यम् । ‘मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् । किन्तु नोद्यापनं कार्य्यमित्याह भगवान् शिवः ॥’ उद्यापनं प्रतिष्ठा । व्रतारम्भोऽपि निषिद्धः । पूर्ब्बोक्तकाश्यपवचनात् । ज्यैष्ठादिमासविशेष- विहितं सावित्रीव्रतादिकन्तु सावकाशत्वान्मल- मासे न कार्य्यम् । किन्तु प्रकृत एव ज्यैष्ठादौ कर्त्तव्यमिति । बृहस्पतिः । ‘नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे । तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥’ नित्यमहरहः पुरस्कारविहितं स्नानसन्ध्यापञ्च- महायज्ञादि काम्यमपि तथाविधं संकल्पितं यत्किञ्चिद्द्रव्यदानशिवपूजादि । व्यक्तं भविष्ये । ‘कुर्य्यात् प्रात्यहिकं कर्म्म प्रयतः सन् मलिम्लुचे । नैमित्तिकञ्च कुर्व्वीत सावकाशं न यद्भवेत् ॥’ कालमाधवीये मत्स्यपुराणम् । ‘वर्षे चाहरहः श्राद्धं दानञ्च प्रतिवासरम् । गोभूतिलहिरण्यानां मासेऽसि स्यान्मलिम्लुचे ॥’ काठकगृह्यपरिशिष्टम् । ‘प्रवृत्तं मलमासात् प्राक् यत् कर्म्म न समा- पितम् । आगते मलमासेऽपि तत् समाप्यमसंशयम् ॥’ ब्रह्मसिद्धान्ते । ‘आरब्धं कर्म्म यत्किञ्चित्तत्कार्य्यं हि मलिम्लुचे ॥’ नैमित्तिकं माससंवत्सरदिवसादिविशेषनियम- शून्यावश्यकर्त्तव्यकादाचित्कनिमित्तोत्पपन्नम् ॥ जातकर्म्माद्यपि मलमासे कार्य्यम् । ‘जातकर्म्मान्त्यकर्म्माणि नवश्राद्धं तथैव च । मघात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ॥ चन्द्रसूर्य्यग्रहे स्नानं दानश्राद्धक्रियादिकम् । कार्य्यं तम्मलमासेऽपि नित्यं नैमित्तिकं तथा ॥’ स्मृतिः । ‘श्राद्धजातकनामानि ये च संस्कारमाश्रिताः । मलिम्लुचेऽपि कर्त्तव्याः काम्या इष्टीश्च वर्ज्जयेत् ॥’ संस्कारा अन्नप्राशननिष्क्रमणादयः । इति माधवाचार्य्यः । अन्त्यकर्म्माणि वहनदहनोदक- दानपिण्डदानास्थिसञ्चयादीनि । नवश्राद्धम् । ‘चतुर्थे पञ्चमे चैव नवमैकादशे तथा । यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥’ इति यमोक्तम् ॥ अत्र चतुर्थाहादिग्रहणं मरणदिनावधीति । बालग्रहभूतग्रहनराधिपप्रबलशत्रुदुःसहरोगा- भिभवाद्भुतदुःस्वप्नग्रहदौस्थ्यादिनिमित्तं शान्ति- कर्म्मापि मलमासेऽपि कर्त्तव्यम् । विष्णुना शान्तिस्वस्त्ययनैर्दैवोपघातान् शमयेत् पर- चक्रोपघातांश्च इत्युक्तम् ।” इति मलमास- तत्त्वम् ॥