वाचस्पत्यम्
मलयज || पुंन० मलये पर्वते जायते जन—ड । १ चन्दने अमरः २ मलयदेशजाते वायौ पु० । ३ तद्देशजाते त्रि० ।
शब्दकल्पद्रुमः
मलयजं || पुं, क्ली, (मलयात् जायते इति । जन् + डः ।)
चन्दनम् । इत्यमरः । २ । ६ । १३१ ॥ (यथा, गीतगोविन्दे । ३ । ११ । “हृदि विषलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ॥ मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि ॥” मलयजाते, त्रि । यथा, महाभारते । १ । २७ । ६ । “उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ॥”)
यथा च । “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् । कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥” इति ग्रहयज्ञतत्त्वम् ॥